Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 286
________________ व्याख्या - इतः खाध्यायात्सर्वस्वं तीर्थकरत्वं च क्रमेण जायते इति परमं मोक्षा स्वाध्यायः तेन कारणेन विज्ञेयः कर्त्तव्यतयेति शेष इति गाथार्थः ||४२४|| किश्व --- तं नत्थि जं न पासइ, सज्झायविऊ पयत्थपरमत्थं । गच्छइ य सुगइमूलं, खणे खणे परमसंवेगं ||४२५|| व्याख्या ---तमास्त्येव यत्पदार्थपरमार्थ स्वाध्यायचित्र पश्यति, यत्किञ्चिदस्ति तत्सर्वं पश्यतीत्यर्थः । गच्छति च क्षमे क्षणे सुगतिमूलं परसंवेगमिति गाथार्थः || ४२५ || ननु स्वाध्याय इवान्यमपि प्रत्युपेक्षणादौ योगे असख्येय भविकं कर्म क्षपयत्येव, तत्कोsa विशेषः ? इत्याहकम्मं संखिज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मि विसेसेण ||४२ ६ || व्याख्या -प्रत्युपेक्षणा प्रभार्जना मिश्राचर्या वैयावृत्यादियोगानां मध्येऽन्यतरस्मिन्नपि योगे - संयमव्यापारे आयुक्त:आदरेण प्रवृत्तः साधुः प्रतिसमयम सङ्ख्येयभवस्थितिकं कर्म क्षपयति, परं स्वाध्याये वर्त्तमानस्तदपि विशेषेण-स्थितिरसाभ्यां विशेषतरं क्षपयति । यथा स्वाध्याये कर्मक्षयः सम्पद्यते न तथा प्रायः प्रत्युपेक्षणादाविति स्वध्यायस्य गरीयस्त्वमिति भावः, उत्कर्षतोऽपि सप्ततिसागरोपमकोटाको टिपरतः कर्म [स्थि] तेरभावादनन्तभवापरिपू तेरसङ्ख्येय मनस्थितिकं कर्म श्चपयतीत्युक्तं नानन्तभविकमिति गाथार्थः || ४२६|| अथ किं परिमाणः स्वाध्यायो भवतीत्यत्राह- उकोसो सज्झाओ, चउदसपुव्वीण बारसंगाई । तत्तो परिहाणीए, जाव तयत्थो नमोक्कारो ||४२७||

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331