________________
व्याख्या - इतः खाध्यायात्सर्वस्वं तीर्थकरत्वं च क्रमेण जायते इति परमं मोक्षा स्वाध्यायः तेन कारणेन विज्ञेयः कर्त्तव्यतयेति शेष इति गाथार्थः ||४२४|| किश्व ---
तं नत्थि जं न पासइ, सज्झायविऊ पयत्थपरमत्थं । गच्छइ य सुगइमूलं, खणे खणे परमसंवेगं ||४२५|| व्याख्या ---तमास्त्येव यत्पदार्थपरमार्थ स्वाध्यायचित्र पश्यति, यत्किञ्चिदस्ति तत्सर्वं पश्यतीत्यर्थः । गच्छति च क्षमे क्षणे सुगतिमूलं परसंवेगमिति गाथार्थः || ४२५ ||
ननु स्वाध्याय इवान्यमपि प्रत्युपेक्षणादौ योगे असख्येय भविकं कर्म क्षपयत्येव, तत्कोsa विशेषः ? इत्याहकम्मं संखिज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मि विसेसेण ||४२ ६ ||
व्याख्या -प्रत्युपेक्षणा प्रभार्जना मिश्राचर्या वैयावृत्यादियोगानां मध्येऽन्यतरस्मिन्नपि योगे - संयमव्यापारे आयुक्त:आदरेण प्रवृत्तः साधुः प्रतिसमयम सङ्ख्येयभवस्थितिकं कर्म क्षपयति, परं स्वाध्याये वर्त्तमानस्तदपि विशेषेण-स्थितिरसाभ्यां विशेषतरं क्षपयति । यथा स्वाध्याये कर्मक्षयः सम्पद्यते न तथा प्रायः प्रत्युपेक्षणादाविति स्वध्यायस्य गरीयस्त्वमिति भावः, उत्कर्षतोऽपि सप्ततिसागरोपमकोटाको टिपरतः कर्म [स्थि] तेरभावादनन्तभवापरिपू तेरसङ्ख्येय मनस्थितिकं कर्म श्चपयतीत्युक्तं नानन्तभविकमिति गाथार्थः || ४२६|| अथ किं परिमाणः स्वाध्यायो भवतीत्यत्राह-
उकोसो सज्झाओ, चउदसपुव्वीण बारसंगाई । तत्तो परिहाणीए, जाव तयत्थो नमोक्कारो ||४२७||