Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 52
________________ प्रतिक्रमणहेतुगर्भः । ॥ २४ ॥ क्रमणयोः क्रमविधिः सङ्क्षेपत उक्तः । अथ प्रतिक्रमणमिति कः शब्दार्थः ? [ उच्यते-] प्रतीत्ययमुपसर्गः प्रतीपाद्यर्थे वर्त्तते । " क्रम-पादविक्षेपे " अस्यानट् प्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति । अयमाशयः- शुमयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेध्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, उक्तं च-" स्वस्थानाद्यस्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमां भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥ क्षायोपशमिकाद्भावा-दौदधिकस्य वशङ्गता । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः || २ || " प्रतिप्रति क्रमणं वा प्रतिक्रमणं शुभयोगेषु तं तं शुभयोगं प्रतिवर्धनमित्यर्थः । उक्तं च" प्रतिप्रतिवर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निश्शल्यस्य यतेर्य तद्वा ज्ञेयं प्रतिक्रमणम् ॥ १ ॥." यथा करणात्कर्मकत्रः सिद्धिस्तदूव्यतिरेकेण करणानुपपत्तेः एवं प्रतिक्रमणादपि प्रतिक्रमक - प्रतिक्रन्तव्यसिद्धिः इत्यतत्रितयमभिधीयते, तत्र प्रतिक्रमणमिति निरूपितशब्दार्थे प्रतिक्रामतीति प्रतिक्रमकः कर्त्ता, प्रतिक्रन्तव्यं कर्माशुभयोगलक्षणं, अतीते वर्त्तमाने एम्ये च काले । ननु प्रतिक्रमणमतीतविषयं यत उक्तं-" अईयं परिकमामि पड़पनं संवरेभि अणामयं पञ्चक्खामि " त्ति, तत्कथमिह कालत्रयविषयं प्रतिक्रमणं ? उच्यते-प्रतिक्रमणशब्दो पत्रांशुभयोगनिवृतिमात्रार्थः सामान्यः शब्दः परिगृह्यते, तथा च सत्यवीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृतिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृचिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेव उक्तं च 48 प्रतिक्रमणशब्दार्थः । ॥ २४ ॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75