________________
पिपलियानगर अभिलेख
२३७
तस्याजनि यशोवर्मा पुत्रः क्षत्रिय शेखरः । तस्मादजयवर्माभूज्जयश्रीविश्रुतः सुतः ।।११।। तत्सूनुर्वीरमर्धन्यो धन्योत्पति (त्ति) रजायत । गुर्जरोछेदनिबंधी विध्य वर्मा महाभुजः ।।१२।। धारयोद्धतया सार्द्ध दधाति स्म त्रिधारतां । सांयुगीनस्य यस्यासिस्त्रातुं लोकत्रयीमिव ।।१३।। तस्यामुष्यायणः पुत्र: सुत्रामश्रीरथाशिषतः । भूपः सुभटवर्मेति.धर्मे तिष्ठन्महीतलं ।।१४।। यस्य ज्वलति दिग्जेतु: प्रतापस्तपनद्युतेः । दावाग्नि सुमनाऽद्यापि गर्जन्गुर्जरपत्तने ।।१५।। देवभूयं गते तस्मिन्नंदनोऽर्जुनभूपतिः । दोष्ना धत्तेऽधनुना धात्री वलयं वलयं यथा ।।१६।। वाललीलाहवे यस्य जयसिंहे पलायिते । दिकया (क्पा) लहासव्याजेन यशो दिक्षु विजृम्भितं ।।१७।। काव्यगांधर्वसर्वस्वनिधिना येन सांप्रतं । भारावतरणं देव्याश्चक्रे पुस्तकवीणयोः ।।१८।। तेन विविधवीरेण त्रिधा पल्लवितं यशः । धवलत्वं दधुस्त्रीणि जगंति कथमन्यथा ।।१९।।
स एव नरनायकः सीभ्युदयीशकपुर-प्रतिजागरणके पिडिविडि-ग्रामे समस्त-राजपुरुषान् ब्राह्मणोत्तरान् प्रति निवासि-पट्टकिल-जनपदादींश्च बोधयत्यस्तु वः संविदितं यथा मंडपदुर्गावस्थितरस्माभिः सप्तषष्ट्याधिक-द्वादशशत-संवत्सरे फाल्गुणे १२६७ शक्लदशाम्यामभिषेक-पर्वणि स्नात्वा भगवन्तं भवानीपतिमभ्यच्य संसारस्यासारतां दृष्ट्वा । तथाहि ।
वाताभ्रविभ्रममिदं वसुधाधिपत्य मापातमात्रमधुरो विषयोपभोगः ।
प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहों परलोकयाने ।।२०।।
इति सर्वं विमृश्यादृष्टफलमंगीकृत्य मुक्तावसु-स्थान-विनिर्गताय वाजसनेय-शाखाध्यायिने काश्यपगोत्राय काश्यपवत्सारनैध्रुव-त्रिप्रवराय अवसावि (सथि) कदेलणम-प्रपौत्राय-पंडित-सोमदेवपौत्राय पंडित-जैत्रसिंह-पुत्राय पुरोहित-गोविन्दशर्मणे ब्राह्मणाय समस्तोपिग्रामश्चतु :कंकट-विश्रुद्धः सवृक्षमालाकुल : सहिरण्यभागभोगः सोपरिकरः सर्वदाय-समेतः सविनिक्षेपो मातापित्रोरात्मनश्च पुण्य यशोऽभिवृद्धये चंद्रार्णिव क्षितिसमकालं यावत्परया भक्तया शासनेनोदकपूर्व प्रदत्त : तन्मत्वा तन्निवासि-पट्टकिलजनपदैर्यथा दीयमान-भागभोगकरहिरण्यादिकं देवब्राह्मणभुक्ति-वर्जमाजाविधेयैर्भूत्वा सर्वममुष्मै दातव्यं सामान्यं चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त-धर्मादायोऽयमनुमंतव्य: पालनीयश्च । उक्तं च।
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ।।२१।। स्वदतां परदत्तां वा यो हरेत वसुंधरां । स विष्ठायां क्रि (कृ) मिर्भूत्वा पितृभिः सह मज्जति ।।२२॥ इति कमलदलांबविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च ।
सकल मिदमुदाहृतं च बुध्वा न हि पुरुषैः परकीत्तियो विलोप्याः ।।२३।। संवत् १२६७ फाल्गुणशुद्ध १० गुरौ रचितमिदं महापंडित श्रीविल्हणसंमतेन राजगुरुणा मदनेन।
(अनुवाद) ओं। पुरुषार्थों में सर्वोत्कृष्ट धर्म को नमस्कार। १. समस्त पृथ्वी के प्रतिबिंब स्वरूप भूमि को ग्रहण कर जो संसार को आनन्दित करते हैं
ऐसे द्विजेन्द्र आपका कल्याण करें। २. रण में हत क्षत्रियों के रक्त से व्याप्त अस्त होते सूर्य के प्रतिबिंब के समान पृथ्वी
जिस दानदाता के लिए लालिमा को धारण किये हुए है उस परशुराम की जय हो। ३. जिसने अपनी प्राणेश्वरी (सीता) की वियोगाग्नि को युद्ध में मंदोदरी के अश्रुजल से बुझाया
वह राम आप को श्रेय प्रदान करे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org