Book Title: Parmaras Abhilekh
Author(s): Amarchand Mittal, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 376
________________ मान्धाता अभिलेख ३२७ १४ १५ ये दारिद्रयोपहतवपुषो ये च दौर्भाग्यदग्धा ये वा शत्रुव्यसनविकला ये च मौर्योपतप्ताः। (ये वा कैश्चित् त्रिनय) ___ न दृढं पीडिता दुःखशोकै स्तेषामेकस्त्वमसि शरणं तषितानामिवाम्भः ।।१८।। श्लाघ्यं जन्म श्रुतिपरिणतिः सत्क्रियायां प्रवृत्तिः प्रौढ़िः शास्त्रे ललितमधुरा संस्कृता भारतीच । स्फीता लक्ष्मीर्वपुरपि दृढं चन्द्रलेखाङ्कमौले युष्मत्सेवा [पदविरहितं सर्वमे] तत्पलालं (लम् ) ॥१९॥ त्वत्पूजायां कुसुमहरणे धाक्तः पादयुग्मं यत्पाषाणव[ज]परिकरोत्कीर्ण रेखाङ्कमासीत् । यत्तस्यैव त्वदनुचरतो रुद्रलोकंगतस्य व(ब) ह्मादीनां मुकुटकिरणश्रेणयः शोणयन्ति ।।२०।। येषां युष्मत्प्रतिकृतिगृहं लि[म्पतां पाणयो ये त्व] द्भक्तानां सलिललुलितैर्गोमयैः संप्रलिप्ताः । तेषामीश त्रिदशनगरीनायकत्वं गतानां तेलिप्यन्ते मृगमदरसैः खेचरीणां कुचेषु ।।२१॥ यस्ते कृत्वा स्नपनममृतैः पञ्चभिश्चन्द्रमौले पश्चात्कैश्चित्कुसुमविकरैर्मृध्नि व (ब)ध्नाति[मालाम् । तस्यावश्यं]-. सकलभुवनैकाधिपत्याभिषिक्ते बध्नन्त्यन्ये शिरसि परमैश्वर्य साम्राज्यपट्टम् ॥२२।। सतच्चित्रं क्वचिदपि मया नैव दृष्टं श्रुतं वा तद्विस्पष्टं कथय किमिदन्नाथ कौतूहलं मे। यत्ते भक्त्या हर चरणयोरप्पितं पुष्पमेकं सद्यः सूते फल [मभिमतं कोटि] ___शः कामरूपं (पम्) ॥२३॥ यस्ते भक्त्या वरद चरणद्वन्द्वमुद्दिश्य दद्या देकं नीलोत्पलदलमपि त्वत्प्रसादेन नूनं (नम्) । तत्प्रत्यंतं (यन्तं) निपतति पुनर्दष्टिरालोलतारदिव्यस्त्रीणां कुवलयदलश्रेणि दीर्घः कटाक्षः ॥२४॥ कृत्वा मालां घनपरिमलोद्गारिधारा कदम्ब]यस्ते कण्ठाभरणपदवी प्रापयेन्नीलकण्ठ। दिव्यस्त्रीणां विपुलपुलकै वा (र्बा) हुभिः कण्ठलग्नस्तस्यापि त्वं वितरसि चिरं निर्भ (र्भ) राश्लेषसौख्यं (ख्यम्) ॥२५॥ १९. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445