________________
मान्धाता अभिलेख
३२७
१४
१५
ये दारिद्रयोपहतवपुषो ये च दौर्भाग्यदग्धा ये वा शत्रुव्यसनविकला ये च मौर्योपतप्ताः। (ये वा कैश्चित् त्रिनय)
___ न दृढं पीडिता दुःखशोकै स्तेषामेकस्त्वमसि शरणं तषितानामिवाम्भः ।।१८।। श्लाघ्यं जन्म श्रुतिपरिणतिः सत्क्रियायां प्रवृत्तिः प्रौढ़िः शास्त्रे ललितमधुरा संस्कृता भारतीच । स्फीता लक्ष्मीर्वपुरपि दृढं चन्द्रलेखाङ्कमौले युष्मत्सेवा [पदविरहितं सर्वमे]
तत्पलालं (लम् ) ॥१९॥ त्वत्पूजायां कुसुमहरणे धाक्तः पादयुग्मं यत्पाषाणव[ज]परिकरोत्कीर्ण रेखाङ्कमासीत् । यत्तस्यैव त्वदनुचरतो रुद्रलोकंगतस्य व(ब) ह्मादीनां मुकुटकिरणश्रेणयः शोणयन्ति ।।२०।। येषां युष्मत्प्रतिकृतिगृहं लि[म्पतां पाणयो ये त्व]
द्भक्तानां सलिललुलितैर्गोमयैः संप्रलिप्ताः । तेषामीश त्रिदशनगरीनायकत्वं गतानां तेलिप्यन्ते मृगमदरसैः खेचरीणां कुचेषु ।।२१॥ यस्ते कृत्वा स्नपनममृतैः पञ्चभिश्चन्द्रमौले पश्चात्कैश्चित्कुसुमविकरैर्मृध्नि व (ब)ध्नाति[मालाम् । तस्यावश्यं]-.
सकलभुवनैकाधिपत्याभिषिक्ते बध्नन्त्यन्ये शिरसि परमैश्वर्य साम्राज्यपट्टम् ॥२२।। सतच्चित्रं क्वचिदपि मया नैव दृष्टं श्रुतं वा तद्विस्पष्टं कथय किमिदन्नाथ कौतूहलं मे। यत्ते भक्त्या हर चरणयोरप्पितं पुष्पमेकं सद्यः सूते फल [मभिमतं कोटि]
___शः कामरूपं (पम्) ॥२३॥ यस्ते भक्त्या वरद चरणद्वन्द्वमुद्दिश्य दद्या देकं नीलोत्पलदलमपि त्वत्प्रसादेन नूनं (नम्) । तत्प्रत्यंतं (यन्तं) निपतति पुनर्दष्टिरालोलतारदिव्यस्त्रीणां कुवलयदलश्रेणि दीर्घः कटाक्षः ॥२४॥ कृत्वा मालां घनपरिमलोद्गारिधारा कदम्ब]यस्ते कण्ठाभरणपदवी प्रापयेन्नीलकण्ठ। दिव्यस्त्रीणां विपुलपुलकै वा (र्बा) हुभिः कण्ठलग्नस्तस्यापि त्वं वितरसि चिरं निर्भ (र्भ) राश्लेषसौख्यं (ख्यम्) ॥२५॥
१९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org