Book Title: Panchsutrop Nishad Author(s): Bhuvanbhanusuri, Kalyanbodhisuri Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ પંથસૂત્રોપનિષદ્ર પ્રસાદી ० क्षुद्रता हि बलात्पातयत्येवानेकदोषनिकुरम्बकर्दम इति हृदयम् | (पीठिका) ० तृष्णैव भयजीवनम् (पीठिका) ० जिनाज्ञायां भावप्रतिबन्ध एव सद्दर्शनपीठिका । (पीठिका) ० न हि दुर्गुणतया भावरिपुरयं ममेति परिचयमेति रागः प्रायः | _ (प्रथम सूत्रम्) ० न हि शुद्धापि धर्माराधनाऽनादिकुवासनासम्मार्जने प्रत्यलाऽन्तरेण सर्वगमौचित्यानुपालनम् । (प्रथम सूत्रम्) यथैव शुभानुबन्धेनानन्तः संसारः, तथैव शुभानुबन्ध-प्रकर्षतोऽनन्तो मोक्ष इति तात्पर्यम् । (प्रथमसूत्रम्) ० शिवफलप्रदकल्पतरुकल्पा हि जिनाज्ञा । (द्वितीयसूत्रम्) ० कल्याणमित्रगोचरपक्षपातातिशयेन हि शतधा फलति सत्सङ्गः | (द्वितीयसूत्रम्) ० क्रियैवानेकबाधायोनिः, तद्विरहे कुतो बाधाया गन्धोऽपीति । (तृतीयसूत्रम्) ० किञ्च तात्त्विको विरागस्त्याजयत्येवाचारित्रमयं गृहवासम् । (तुर्यसूत्रम्) ० एवं गुरुबहुमानविरहे सकष्टापि चरणक्रिया न मोक्षफला, अपि तु भवबम्भ्रमणपर्यवसनेति तात्पर्यम् । (तुर्यसूत्रम्) ० पदे पदे जिनवचःपुरस्करणं बीजं कल्याणपरम्परायाः । (तुर्यसूत्रम्) ० न हि पाण्डित्यं सज्ज्ञानम्, अपि त्वल्पाऽपि शुद्धसंवित्ति-परिणतिरिति ध्येयम् । (तुर्यसूत्रम्) ० सर्वथानौत्सुक्ययोगेनैवाखण्डितसुखावियोगः सम्भवी । (पञ्चमसूत्रम्)Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 324