________________
પંથસૂત્રોપનિષદ્ર પ્રસાદી
० क्षुद्रता हि बलात्पातयत्येवानेकदोषनिकुरम्बकर्दम इति हृदयम् |
(पीठिका) ० तृष्णैव भयजीवनम् (पीठिका) ० जिनाज्ञायां भावप्रतिबन्ध एव सद्दर्शनपीठिका । (पीठिका) ० न हि दुर्गुणतया भावरिपुरयं ममेति परिचयमेति रागः प्रायः | _ (प्रथम सूत्रम्) ० न हि शुद्धापि धर्माराधनाऽनादिकुवासनासम्मार्जने प्रत्यलाऽन्तरेण
सर्वगमौचित्यानुपालनम् । (प्रथम सूत्रम्) यथैव शुभानुबन्धेनानन्तः संसारः, तथैव शुभानुबन्ध-प्रकर्षतोऽनन्तो
मोक्ष इति तात्पर्यम् । (प्रथमसूत्रम्) ० शिवफलप्रदकल्पतरुकल्पा हि जिनाज्ञा । (द्वितीयसूत्रम्) ० कल्याणमित्रगोचरपक्षपातातिशयेन हि शतधा फलति सत्सङ्गः |
(द्वितीयसूत्रम्) ० क्रियैवानेकबाधायोनिः, तद्विरहे कुतो बाधाया गन्धोऽपीति ।
(तृतीयसूत्रम्) ० किञ्च तात्त्विको विरागस्त्याजयत्येवाचारित्रमयं गृहवासम् ।
(तुर्यसूत्रम्) ० एवं गुरुबहुमानविरहे सकष्टापि चरणक्रिया न मोक्षफला, अपि
तु भवबम्भ्रमणपर्यवसनेति तात्पर्यम् । (तुर्यसूत्रम्) ० पदे पदे जिनवचःपुरस्करणं बीजं कल्याणपरम्परायाः । (तुर्यसूत्रम्) ० न हि पाण्डित्यं सज्ज्ञानम्, अपि त्वल्पाऽपि शुद्धसंवित्ति-परिणतिरिति
ध्येयम् । (तुर्यसूत्रम्) ० सर्वथानौत्सुक्ययोगेनैवाखण्डितसुखावियोगः सम्भवी । (पञ्चमसूत्रम्)