Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 70
________________ 5 10 आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके - यत एवम् अओ कायवमिणं होउकामेणं । यस्मादुक्तवदधिकृततत्त्वसिद्धिः अतः अस्मात् कारणात् कर्त्तव्यम् इदं वक्ष्यमाणं भवितुकामेन मोक्षार्थिना भव्यसत्त्वेन । कथं कर्तव्यम् ? इत्याह-सया सुप्पणिहाणं । संदा सर्वकालं सुपणिधानम्, शोभनेन प्रणिधानेन नात्र कालो नियम्यते, किन्तु सुप्रणिधानमिति, यदा यदा क्रियते तदा तदा सुप्रणिधानं कर्त्तव्यमित्यर्थः। सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् । उक्तं च प्रणिधानकृतं कर्म मत तीव्रविपाकवत् । - सानुबन्धननियमाच्छुभांशाच्चैतदेव तत् ॥ [ ] इत्थं चैतदङ्गीकर्तव्यम् इत्याह- भुज्जो भुज्जो संकिलेसे, कर्त्तव्यमिदं भूयो भूयः पुनः पुनः संक्लेशे सति तीव्रराग. दिसंवेदनरूपे,अरतावुत्पनायामिति यावत् । तथा तिकालमसंकिलिसे । त्रिकालं त्रिसन्ध्यं कर्तव्यमिदम् असंक्लेशे प्रकृत्या कालगमने सति ।:. यत् कर्त्तव्यं तदाह६१. जावज्जीवं मे भगवंतो परमतिलोगणाहा अणुत्तरपुण्णसंभारा खीणरागदोसमोहा अचिंतचिंतामणी भवजलहिपोया एगंतसरण्णा अरहंता,सरणं । जावज्जीवं मे भगवंतो अरहंता सरणं इति योगः । यावज्जीवं यावज्जीवितं मे मम भगवन्तः समग्रैश्वर्यादियुक्ताः अर्हन्तः शरणम् इति योगः। अत्र ‘यावज्जीवम्' इति कालपरिमाण परतो भङ्गभयात् , ने पुनरवधित्वेन, परतोऽप्यधिकृतशरणस्येष्टत्वात् । - एत एव विशेष्यन्ते-परमतिलोगनाहा, परमाश्च ते दुर्गतिभयसंरक्षणेन त्रिलोकनाथाश्च, अत्र त्रिलोकग्रहणेन त्रिलोकवासिनो देवादयः परिगृह्यन्ते । 15 20 १हुत आरभ्य काल० पृ. ८ पं. १९] इतिपर्यन्तम् एकं पत्रं H. मध्ये नास्ति । २ जावजी K 1. K. ॥ ३ ०रागदोस० K1॥ ४ न H. विना नास्ति । ५ शरणत्वेनस्यष्टत्वात् H. । अत्र H. अनुसारेण 'अधिकृतशरणत्वेनास्येष्टवात्' इत्यपि पाठः संभवेत् ॥ ६ त्रिलोकग्रहणेन S.H. विना नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179