Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
________________
पञ्चमं परिशिष्टम् ।
१०९
ननु यो वीतरागः सर्वज्ञश्च सोऽवश्यं त्रिदशपूजित एवेति नार्थोऽनेन विशेषणेन, तदयुक्तम , मुण्डकेवलिप्रभृतीनां केषाञ्चिदत्रिदशपूजितानामपि यथोक्तविशेषणविशिष्टत्वात् , तद्वयवच्छेदार्थ 'त्रिदशपूजित'ग्रहणम् । यद्येवम् तर्हि 'त्रिदशपूजितम्' इत्येतावदेवास्तु, कृतं वीतरागादिग्रहणेन, न, अवीतरागाणामपि गणधरादीनां त्रिदशपूजितत्वश्रवणात् , तदपनोदाथ वीतरागादिग्रहणम् ।
पुनरप्येतद्विशेषणायैवाह-जहनायवत्थुवादिं यथाज्ञातवस्तुवादिनम् , भूत-भवद-भाविभावस्वभावावभासिना केवलज्योतिषा यथा यथा सदसद्रूपत्वादिना प्रकारेण शातं परिच्छिन्नं वस्तु तथा तथा वदितुं शीलो यथाशातवस्तुवादी, तम् ।।
ननु यो वीतरागः सर्वज्ञस्त्रिदशपूजितश्च स यथाज्ञातवस्तुवाद्येवेति किमनेन विशेषणेन ? न, अस्य कुवादि. मतव्यवच्छेदार्थत्वात् ! विद्यते हि परेषामेवंविधोऽप्यसदम्युपगमो, यथा-वीतरागत्वादिविशेषणयुक्तोऽपि न यथाज्ञातवस्तुवादी', "वस्तु वाचामगोचरः" [इति] वचनप्रामाण्यात् । यद्येवं तर्हि यथाज्ञातवस्तुवा. दिनमित्येतावदेव शोभनमलं वीतरागादिग्रहणेन, न, चतुर्दशपूर्वधरादीनामपि यथाज्ञातवस्तुवादित्वसंभवात् , ततस्तद्वयवच्छेदार्थं वीतरागादिग्रहणम् ।
भूयोऽप्येतद्विशेषणायाह-अचितसत्तिमिति, अचिन्त्या-चिन्तातिक्रान्ता प्राकृतजनानामध्यवसातुमायशक्यत्वात् शक्तिः-स्वप्रदेशैः सकललोकाकाशप्रदेशपूरण सामर्थ्यादिलक्षणा यस्यास्ति सोऽचिन्यशक्तिस्तम् । नन्विदं विशेषणमपार्थकम् , यथोक्तवीतरागत्वादिस्वरूपोपेतस्याचिन्त्यशक्तित्वव्यभिचाराभावात् , सति च व्यभिचारसंभवे विशेषणोपादानमर्थवत्तामश्नुते, तदुक्तम्-"संभवे व्यभिचारे च विशेषणमर्थवद्भवते, यथा नीलोत्पलम्" [ ] इति, व्यभिचाराभावे तु तदुपादीयमानं न प्रयासमृते अन्यमर्थं पुष्णाति, यथा कृष्णो भ्रभरः, शुक्ला बलाके ति, तस्मादचिन्त्यशक्तिमित्यतिरिच्यते, न, अभिप्रायापरिज्ञानात् , यस्मादिह यथोक्तवीतरागत्वादिस्वरूपोपेतोऽचिन्त्यशक्तिरेव नान्यथेति नियमार्थत्वेन स्वरूपपरिज्ञानार्थमिदं विशेषणम् , ततोऽनवद्यमेव । न चैकान्ततो व्यभिचारसंभव एव विशेषणोपादानम् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् । तत्रोभयपदव्यभिचारे यथा-नीलोत्पलम , एकपदव्यभिचारे यथा-आपो द्रव्यं पृथ्वी द्रव्यं, स्वरूपज्ञापने यथा-परमाणुरप्रदेश इति । यद्येवं तर्हि अचिन्त्यशक्तिमित्येतावदेव मनोहरं, वीतरागादिग्रहणं पुनरपार्थकम् , न, लोके मण्यादीनामपि अचिन्त्यशक्त्युपेततयाऽभ्युपगमात् , “अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः” इतिप्रवादात् , अतस्तत्कल्पो भगवान् मा प्रापदिति तद्वयवच्छेदार्थ वीतरागादिग्रहणम् ।।
एतैश्च विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया निर्दिष्ट। वेदितव्याः, तद्यथा-अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वागतिशयश्च । तत्र वीतरागमित्यनेनापायापगमातिशयमाह, सर्वज्ञमित्यनेन ज्ञानातिशयम् , त्रिदशपूजितमित्यनेन पूजातिशयम, यथाज्ञातवस्तुवादिनमित्यनेन तु वागतिशयम् , अचिन्त्यशक्तिमित्यनेन पुनः स्वरूपावधारणमिति । नन्वेषामतिशयानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवत्त इति, अस्तीति ब्रमः, किं तदिति चेत् ?, उच्यते-एवमेव भावः, तथाहि-नावीतरागः सर्वज्ञो भवति, न चासर्वज्ञस्य सतस्त्रिदशास्तथा पूजां कुर्वन्ति, न च तस्कृतपूजोपचाराभावे भगवान् धर्ममाचष्टे इति । एते चान्येषामपि देहसौगन्ध्यादीनामतिशयानामुपलक्षणम , ततश्चतुस्त्रिंशदतिशयसम्पत्समन्वितं भगवन्तं नत्वेत्युक्तं द्रष्टव्यम् । तथा चाह-तित्थयरं तीर्थकरम् , न ह्यपायापगमातिशयादिरहित इव देहसौगन्ध्योद्यतिशयरहितस्तीर्थकरो भवतीति । तत्र जन्मजरामरणसलिलसङकुलं मिथ्यादर्शनाविरतिगम्भीरं रागद्वेषपवनविक्षाभितं नानाविधानिष्टेष्टसंयोगवियोगवीचीनिचयोपेतं दुरवगाहमोहावतभीषणं विविधशारीरमानसानेकदुःखौघदुष्टश्वापदं महाभीमकषायपातालं प्रबलमनोरथवेलाकुलं सुदीर्घसंसारसागरं तरन्त्यनेनेति तीर्थम् , एतच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं त्रिलोकीगतावदातधर्मसम्पयुक्तमहासत्त्वाश्रयम् अत्यन्तानवद्यान्या विज्ञातचरणकरणक्रियाधारम् अचिन्त्यशक्तिसमन्वितम अविसंवादिप्रवचनम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179