Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 174
________________ ११२ पञ्चमं परिशिष्टम् । पृ० ४४ पं० ४-५ पूजयित्वा......तोषयित्वा । अत्र Aसं० विना सर्वत्र S. Avo B मध्ये पूजित्वा......तोषित्वा इति पाठ उपलभ्यते । अयमपि पाठः समीचीन एव भाति, दृश्यतां पृ० ७५ टि०४॥ __पृ० ४७ पं० ८-९ ° विज्ञाने(नो)हा.ऽपोह° । अत्र 'विशानेहा-ऽपोह'' इति सर्वेष्वपि हस्तलिखितादर्शषूपलभ्यमानः पाठः समीचीन एव । तुला. "समाहितस्य सतः शुश्रूषा, ततः श्रवणम् , श्रवणाद ग्रहण धारणेहापोहाः, ततः संसारतत्त्वाधिगमः" इति तत्त्वार्थसूत्रस्य अष्टम्याः सम्बन्धकारिकाया देवगुप्तसूरिविरचितायाष्टीकायाः प्राचीने हस्तलिखिते आदर्श ॥ पृ० ६३ पं० १३ अणेगभवियाए......तुला-"अनेकजन्मसंसिद्धस्ततो याति परां गतिम् । [६।४५] .....बहूनां जन्मनामन्ते शानवान् मां प्रपद्यते ।" [७।१९] इति भगवद्गीतायाम् । पृ० ६४ पं० ३-४ संज्ञाना(सज्ज्ञाना?)लोचनेन । तुला- “तीव्रपापाभिभूतत्वाज्ज्ञानलोचनवर्जिताः। सदवितरन्त्येषु न सत्वा गहनान्धवत् ॥८५॥” इति योगबिन्दौ । पृ० ७८ पं० १३ इयं च...। तुला-- "अस्यैषा मुख्यरूपा स्यात् पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ॥ १७९ ॥" [ योगबिन्दुः ] "अस्य अपुनर्बन्धकस्य एषा प्रागुक्ता मुख्यरूपा निरुपचरिता स्याद् भवेत् पूर्वसेवा देवपूजादिरूपा... शेषस्यापि...सकृद्वन्धकादेः उपचारत औपचारिकी पूर्वसेवा स्यात् । इह केचिद् मार्गपतित-मार्गाभिमुखावपि शेषशब्देनाहुः । तच्च न युज्यते, अपुनर्बन्धकावस्थाविशेषरूपत्वात् तयोरपुनर्बन्धकग्रहणेनैव गतत्वात् । यतो ललितविस्तरायां मार्गलक्षणमित्थमुक्तम् --' इह मार्गश्चेतसोऽवक्रगमनं भुजङ्गमनलिकायान(म)तुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमः' [पृ० १६२] इति । तत्र प्रविष्टो मार्गपतितः । मार्गप्रवेशयोग्यभावापन्नो मार्गाभिमुखः । एवं च नैतावपुनर्बन्धकावस्थायाः पर-परतरावस्थामाजौ वक्तुमुचितौ, भगवदाज्ञावगमयोग्यतया पश्चसूत्रकवृत्तावनयोरुक्तत्वात् । यथोक्तं तत्र----- इयं च भागवती सदाशा सर्वैव अपुनर्बन्धकादिगम्या । अपुनर्बन्धकादयो ये सत्त्वा उत्कृष्टां कर्मस्थितिं तथा अपुनर्बन्धकत्वेन क्षपयन्ति ते खल्वपुनर्बन्धकाः । 'आदि'शब्दाद् मार्गपतित-मार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञालोचना(का?)दिगम्यलिङ्गाः । एतद्गम्येयम् , न संसाराभिनन्दिगम्या [पञ्चसूत्रकवृत्तिः पृ० ७८ ] इति । संसाराभिनन्दिन श्वापुनर्बन्धकप्रागवस्थाभाजो जीवा इति ।” इति योगबिन्दुवृत्तौ । पृ० ७७ पं० ७ ऋतुयंतातः......। श्लोकोऽयं बौद्धाचार्येण अश्वघोषेण विरचिते सौन्दरनन्दे महाकाव्ये नवमे सर्गेऽष्टाविंशतितमः । प०७४ पं० १७ विषयप्रतिभासमात्र ज्ञान... तुला-- "विषयप्रतिभासं चात्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव शानमाहुमहर्षयः ॥१॥ विष-कण्टक-रत्नादौ बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात् तद्धेयत्वाद्यवेदकम् ॥२॥ निरपेक्षप्रवृत्त्यादि लिङ्गमेतददाहतम् । अज्ञानावरणापायं महापायनिबन्धनम |॥ ३॥ पातादिपरतन्त्रस्य तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तं चात्मपरिणतिमन्मतम् ॥ ४ ॥ तथाविधप्रवृत्त्यादिव्यङ्गय सदनुबन्धि च । ज्ञानावरणहासोत्थं प्रायो वैराग्यकारणम |॥ ५ ॥ स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ॥ ६ ॥ १ 'मग्गदयाणं' इति पदस्य व्याख्यायाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179