Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
________________
१०८
अंथ पञ्चमं परिशिष्टम्
कतिपयानि विशिष्टानि टिप्पणानि पृ० २ पं.० १० उपाईपुद्गलपरावतो......। तुला-''सम्यग्दर्शनस्य को विरहकाल: १ एकजीवं प्रति जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन उपार्धपुद्गलपरिवर्तः” इति तत्त्वार्थभाष्ये १८ “एकजीवं प्रतीत्यादि, एको जन्तुरौपशमिकं क्षायिकं वा प्राप्य उज्झित्वा पुनः कश्चित् मुहूर्तस्यान्तर्लभते, कश्चित्तु अनन्तेन कालेन लभते । स चानन्तकाल एवमाख्यायते--उत्कृष्टेन उपार्धपुद्गलपरावर्तः । पुद्गलपरावर्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवन्ति, स पुद्गलपरावर्त औदारिक-वैक्रियतैजस-भाषा-प्राणापान-मन:-कर्मभेदात् सप्तधा, एतत्समुदायस्याधै गृह्यते किञ्चिदूनम् । एतत् कथं प्रतिपादयितुं शक्यत इति चेत् , उपापुद्गलपरावर्त इत्यनेनोच्यते 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्ते' इति न्यायात् । अयं चार्धशब्दः समप्रविभागवचन:, किञ्चिन्न्यूनाभिधायित्वाच्च पुंल्लिङ्गः, उपगतोऽर्ध उपार्धः, किञ्चिन्न्यून इति प्रादिसमासः ।" इति तत्त्वार्थसूत्रस्य आचार्यसिद्धसेनगणिविरचितायां टीकायाम् प्राचीने हस्तलिखितादर्श, पृ० ६७-६८ । पृ० ३ पं० ११ तत्र रज्यतेऽनेनेति......। तुला
"नमिऊण वीयरागं सम्वन्नु तियसपूइयं विहिणा । जहणायवत्थुवादिं अचिंतसत्ति महावीरं ॥१॥ सुहभावज्जियतित्थगरणामकम्मस्स सुहविवागातो ।
अणुवगियपरहियरय तित्थगरमिमस्स तित्थस्स ॥२॥” [धर्मसंग्रहणी, गाथा १-२1 "तत्र व्याख्या-रज्यतेऽनेनेति रागः, रागवेदनीयं कर्म क्वचिदिष्टे वस्तुनि तेन जन्तोरभिष्वङ्गपरिणामापादनात् , रञ्जनं वा रागः, रागवेदनीयकर्मविपाकोदयसम्पादितो जन्तोरभिष्वङ्गपरिणाम एव । वीतो रागो येन स वीतरागः, तम् । नमिऊण नत्वा । रागग्रहण द्वेष-मोहोपलक्षणम् , ततो वीतद्वेषं वीतमोहं चेत्यपि ट्रष्टव्यम् । तत्र द्विष्यतेऽनेनेति द्वेषः-द्वेषवेदनीयं कर्म, क्वचिदनिष्टे वस्तुनि, तेनात्मनोऽप्रातिपरिणामापादनात् , दुषणं वा द्वेषः द्वेषवेदनीयकर्मविपाकोदयजनितो जन्तोरप्रीतिपरिणाम एव । तथा मुह्यतेऽनेनेति मोहः मोहवेदनीयं कर्म, तेन यथावस्थितवस्तुतत्त्वपरिच्छेदविषये जन्तोरज्ञानपरिणामापादनात् , मोहनं वा मोहःमोहनीयकर्मविपाकोदयजनितो जन्तोरज्ञानपरिणाम एव । एतदुपलक्षणं रागग्रहणम् , यस्मादाह-सम्वन्नु सर्वज्ञम् । न ह्यवीतराग इवावीतद्वेषादिः सर्वज्ञो भवतीति । सर्व जानातीति सर्वज्ञः, यथा च विशेषग्राह्यपि ज्ञानं कथञ्चित् सामान्यस्यापि ग्राहकत्वात् सर्ववस्तुग्राहि भवति तथोत्तरत्र स्वयमेवाचार्यो दर्शयिष्यतीति नाधुना वितन्यते ।
ननु यो वीतरागः स सर्वज्ञ एव, ततो गतार्थमिदं विशेषणमिति नोपादेयम् , न, छद्मावस्थाभाविवीतरागयलेटफलत्वात । यद्येवम , तर्हि 'सर्वज्ञम्' इत्येतावदेवास्ताम, अलं 'वीतराग'ग्रहणेन, न, अवीतरागा. णामपि सकलशास्त्रार्थोपनिषद्वेदिनामुपचारेण लोके सर्वज्ञत्वव्यवहारदर्शनात् , आजीविकनयमतानुसारिभिश्च गोशालशिष्यैः सर्वज्ञस्तत्त्वतः खल्ववीतरागोऽप्यभ्युपगम्यते, 'अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्ति' इति वचनात् , तत्वतो वीतरागस्य चेहागमनासम्भवात् , ततस्तद्वयवच्छेदार्थ 'वीतराग'ग्रहणम् ।
एतद्विशेषणायैवाह-तियसपूयं विहिणा, त्रिदशपूजितं विधिना, उपपातान्तर्मुहूर्तानन्तरं सदा तृतीया यौवनलक्षणा दशा अवस्था येषां ते त्रिदशाः वैमानिकादयो देवाः, पूरणार्थश्च वृत्तावन्तर्भूतो यथा तृतीयो भागस्त्रिभाग इति, तैः पूजितः-समभ्यर्वितो यो विधिना तदेकतानतादिलक्षणेन, तम् । 'नमिऊण' इति क्रियापदविशेषणं बा, विधिना नत्वेति । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179