Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 115
________________ चतुर्थं प्रव्रज्या परिपालनासूत्रम् । निदर्शनमाह - व्याधितंसुक्रियाज्ञातेन, रोगितस्य शोभनक्रियोदाहरणेन । एतदेवाह - २ से जहा के महावाहिगहिए, अणुभूयतव्वेयणे, विष्णाया त्वाद्वा आत्मना संचेत्यन्ते क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हास त्ति हासाद्भवन्ति हाससम्भूतहासा उपसर्ग एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैर्व्यन्तर्या उपयाचितं प्रतिपन्नं यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं देवतया च हासेन तद्रूपमावृत्य क्रीडितम्, अनागच्छत्सु च क्षुल्लके व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि याचित्वा तस्यै दत्तं तया तु ते दर्शिता इति । प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत् । विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः, तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति । पृथग्- भिन्ना विविध मात्रा -हासादिवस्तुरूपा येषु ते पृथग्विमात्राः, अथवा पृथग् विविधा मात्रा विमात्रा, तया, इत्येतल्लुप्ततृतीयैकवचनं पदं दृश्यम्, तथाहि -हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति तथा मानुष्षा हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती, सा च तेन दण्डेन ताडिता, विवादे च राज्ञः श्रीगृहहष्टान्तो निवेदितस्तेनेति । प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः । विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्म्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति । कुशीलम् - अब्रह्म, तस्य प्रतिषेवणं कुशीलप्रतिषेवणम्, तद्भावः कुशीलप्रतिषेवता उपसर्गः, कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः, अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायां वसत्यर्थं प्रोषितस्येर्ष्यालोगृहे प्रविष्टः साधुश्चतसृभिर्ष्यालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसरिगतो न च क्षुभितः । तथा तैरश्चा भयात् श्वादयो दशेयुः । प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान् । आहारहेतोः सिंहादयः । अपत्य-लयन संरक्षणाय काक्पादयः उपसर्गयेयुरिति । तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा, यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाकुरादि जातं घट्टयति इति । प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुद्यते । स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः । श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति । भवन्ति चात्र गाथा: - "हास १ पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्वो । एवं चित्र माणुसो कुसीलपडि सेवण चउत्थो || १ || तिरिओ भय १ प्पओसा २ ऽऽहारा ३ वच्चादिरक्खणत्थं वा ४ । घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽवसंवेओ ४ || २ || दिव्वंमि वंतरी १ संगमे २ गजइ ३ लोभणादीपा ४ । इत्युत्तरार्द्धम्, गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियोईया ४ । तिरियंमि सा १ कोसिय २ सीहा ३ अविरनुगवाई ४ | ३ || कणुग १ कुडणा २ भिपयणाइ ३ गत्तर्सलेसणादओ ४ नेया । आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया वा ॥४॥ [विशेषावश्यकभाष्ये गा. ३५५३ - ३५५४, ३५५८ - ३५६० ] इति" इति अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम् ॥ O १ ' तस्य सुक्रिया S. विना ॥ २ जहा नामए के S. K. विना ॥ Jain Education International ܘ For Private & Personal Use Only ५३ 5 10 15 20 25 30 35 www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179