Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 135
________________ पञ्चमं प्रव्रज्याफलसूत्रम् । दर्शनात्, योगो बन्ध इत्यनर्थान्तरम् । ण दिदिक्खा अकरणस्स । ण यादिट्ठम्मि एसा । ण सहजाए णिवित्ती । ण निवित्तीय आयट्ठाणं । ण यण्णहा तस्सेसा । ण भव्वततुल्ला णाएणं । ण केवलजीवरूवमेयं । ण भाविजोगावेक्खाए तुल्लत्तं, तदा केवलत्तेण सयाऽविसेसाओ । तहासहायकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं । आदावबद्धस्य दिक्षा, बद्धमुक्तस्य तु न सेति दोषाभावादादिमानेव बन्धोऽस्त्वित्याशङ्काव्यपोहायाह-न दिदृक्षाऽकरणस्येन्द्रियरहितस्य, बद्धस्य चैतानि । तथा न चादृष्टे एषा दिक्षा, द्रष्टुमिच्छा दिदृक्षेति कृत्वा । सहजैवैषेत्यारेकानिराकरणायाह-न सहजाया निवृत्तिर्दिदृक्षायाः, चैतन्यवत् । अस्तु वेयमित्यभ्युपेत्य दोषमाह-न निवृत्तौ दिक्षाया आत्मनः स्थानम्, तदव्यतिरेकात् । तथा चाह - नान्यथा तस्यैषा, आत्मनो दिक्षायोगात् । तदव्यतिरेकेऽपि भव्यत्वस्येव तनिवृत्तौ दोषाभाव इत्याशङ्कापोहायाह-न भव्यत्वतुल्या न्यायेन दिक्षा | कुतः ? इत्याह-न केवलजीवरूपमेतद् भव्यत्वम् । दिदृक्षा तु केवलजीव रूपेत्यर्थः । न भावियोगापेक्षया महदादिभावे तदाऽकेवलत्वेन तुल्यत्वं दिक्षायाः भव्यत्वेन । अत्र युक्तिमाह- तदा केवलत्वेन भावियोगाभावे सदा अविशेषात् तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिक्षापत्तिरिति हृदयम् । , एवंस्त्रभावैवेयं दिदृक्षा या महदादिभावाद् विकारदर्शने केवलावस्थायां निवर्त्तते इत्येतदाशङ्कयाह - तथास्वभावकल्पनं कैवल्याविशेषे प्रक्रमाद् दिदृक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृति-पुरुषाधिकत्वेन तदभावापत्येति गर्भः । अत एवाह एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिक्षायामभ्युपगम्यमानायाम्, तथाहि - परिकल्पिता न तदा केवलत्वेन S. विना ॥ S. विना ॥ १ तस्यैवा आत्मनो S. ।। २ तदाव्य • S. ॥ ३ ४ प्रकृतेः पुरुषा • S. Aमू० विना ॥ ५ तद्भावा Jain Education International C For Private & Personal Use Only ७३ 5 10 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179