Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
________________
७२.
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सर्वथा चिन्त्यमेतत् स्वरूपेण सिद्धमुखं ने तत्त्वतो मतेरविषयत्वात् । साद्यपर्यवसितं प्रमाणतः एकसिद्धापेक्षया, न तु तत्प्रवाहमधिकृत्य, प्रवाहतस्त्वनादि तदोघमाश्रित्य । तथा चाह-तेऽपि भगवन्तः सिद्धा एवम् , एकसिद्धापेक्षया साद्यपर्यवसिताः, प्रवाहापेक्षया अनाद्यपर्यवसिता इति । समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह-तथाभव्यत्वादिभावात् तथाफलपरिपाकीह तथाभव्यत्वम् ।
अत एवाह-विचित्रमेतत् तथाभव्यत्वादि । कुतः ? इत्याह-तथाफलभेदेन कालादिभेदभाविफलभेदेनेत्यर्थः। समाने भव्यत्वे सहकारिभेदात
फलभेद इत्याश पोहायाह-नाविचित्रे तथाभव्यत्वादौ सहकारिभेदः। 10 किमित्यत आह-तदपेक्षस्तक इति तदतत्स्वभावत्वे तदुपनिपाताभावादिति ।
अनेकान्तवादस्तत्त्ववादः, सर्वकारणसामर्थ्यांपादनात् । स खल्वनेकान्तवाद एवं तथाभव्यत्वादिभावे । इतरथैकान्तः, सर्वथा भव्यत्वादेस्तुल्यतायाम् । ततः किम् ? इत्याह-मिथ्यात्वमेष एकान्तः । कुतः ? इत्याह-नातो व्यवस्था एकान्तात् , भव्यत्वाभेदे सहकारिभेदस्यायोगात् , तत्कर्मताऽभावात् , कर्मणोऽपि कारकत्वात् , अतत्स्वभावस्य च कारकत्वासंभवादिति भावनीयम् । अत एवाहअनाहतमेतदेकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेव न्यायान्तरमाह-संसारिण एव सिद्धत्वम् , नान्यस्य । कोऽयं नियमः ? इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी इत्याह-शब्दार्थरहिता, बन्धाभावेन । __ अयं चानादिमान बन्धःप्रवाहेण संतत्या । कथं युक्तिसङ्गतोऽभूतिभावेन ? इत्याह-अतीतकालतुल्यः, स हि प्रवाहेणानादिमाननुभूतवर्तमानभावश्च । यथोक्तम्
भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम् ॥ [ ]
किं चाऽबद्धबन्धने प्रथमम् अमुक्तिर्मुक्त्यभावः। कुतः? इत्याह25 पुनर्बन्धप्रसङ्गात् , अबद्धत्वेन हेतुना । तथा चाह-अविशेषो बद्ध-मुक्तयो
रिति । अनादिमति बन्धे मोक्षाभावः तत्स्वाभाविकत्वेनेत्याशङ्कानिरासायाहअनादियोगेऽपि सति वियोगोऽविरुद्ध एव काश्चनोपलज्ञातेन लोके तथा
१ 'न चिन्त्यमेतत् स्वरूपेण सिद्धसुखम्' इत्यन्वयोऽत्र ज्ञेयः ।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179