SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ७२. आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सर्वथा चिन्त्यमेतत् स्वरूपेण सिद्धमुखं ने तत्त्वतो मतेरविषयत्वात् । साद्यपर्यवसितं प्रमाणतः एकसिद्धापेक्षया, न तु तत्प्रवाहमधिकृत्य, प्रवाहतस्त्वनादि तदोघमाश्रित्य । तथा चाह-तेऽपि भगवन्तः सिद्धा एवम् , एकसिद्धापेक्षया साद्यपर्यवसिताः, प्रवाहापेक्षया अनाद्यपर्यवसिता इति । समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह-तथाभव्यत्वादिभावात् तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह-विचित्रमेतत् तथाभव्यत्वादि । कुतः ? इत्याह-तथाफलभेदेन कालादिभेदभाविफलभेदेनेत्यर्थः। समाने भव्यत्वे सहकारिभेदात फलभेद इत्याश पोहायाह-नाविचित्रे तथाभव्यत्वादौ सहकारिभेदः। 10 किमित्यत आह-तदपेक्षस्तक इति तदतत्स्वभावत्वे तदुपनिपाताभावादिति । अनेकान्तवादस्तत्त्ववादः, सर्वकारणसामर्थ्यांपादनात् । स खल्वनेकान्तवाद एवं तथाभव्यत्वादिभावे । इतरथैकान्तः, सर्वथा भव्यत्वादेस्तुल्यतायाम् । ततः किम् ? इत्याह-मिथ्यात्वमेष एकान्तः । कुतः ? इत्याह-नातो व्यवस्था एकान्तात् , भव्यत्वाभेदे सहकारिभेदस्यायोगात् , तत्कर्मताऽभावात् , कर्मणोऽपि कारकत्वात् , अतत्स्वभावस्य च कारकत्वासंभवादिति भावनीयम् । अत एवाहअनाहतमेतदेकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेव न्यायान्तरमाह-संसारिण एव सिद्धत्वम् , नान्यस्य । कोऽयं नियमः ? इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी इत्याह-शब्दार्थरहिता, बन्धाभावेन । __ अयं चानादिमान बन्धःप्रवाहेण संतत्या । कथं युक्तिसङ्गतोऽभूतिभावेन ? इत्याह-अतीतकालतुल्यः, स हि प्रवाहेणानादिमाननुभूतवर्तमानभावश्च । यथोक्तम् भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम् ॥ [ ] किं चाऽबद्धबन्धने प्रथमम् अमुक्तिर्मुक्त्यभावः। कुतः? इत्याह25 पुनर्बन्धप्रसङ्गात् , अबद्धत्वेन हेतुना । तथा चाह-अविशेषो बद्ध-मुक्तयो रिति । अनादिमति बन्धे मोक्षाभावः तत्स्वाभाविकत्वेनेत्याशङ्कानिरासायाहअनादियोगेऽपि सति वियोगोऽविरुद्ध एव काश्चनोपलज्ञातेन लोके तथा १ 'न चिन्त्यमेतत् स्वरूपेण सिद्धसुखम्' इत्यन्वयोऽत्र ज्ञेयः ।। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy