Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
View full book text ________________
७८ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
— एषोऽपि व्यवहारनयः परमार्थाङ्गम् इह प्रक्रमे, तथा योग्यताबुद्धरपि सनि(नि?)बन्धनत्वात् । तत्स्वभावाविशेषे तु दार्वन्तरवद् योग्यदारुण्यपि तथा बुद्धयसिद्धेरित्यादि निर्लोठितमन्यत्र इत्यनुष्ठानमेवाधिकृत्याह-एषोऽपि तत्त्वाङ्गम् । यथोक्तम्
जइ जिणमयं पवज्जह ता मा ववहारनिच्छये 'मुयह ।
ववहारणयुच्छेए तित्थुच्छेओ जतोऽवस्सं ।। [पञ्चवस्तु के गा० १७२] अत एषोऽपि व्यवहारनयस्तत्त्वाङ्गं प्रवृत्तौ मोक्षाङ्गमित्यर्थः । कुतः ? इत्याहप्रवृत्तिविशोधनेन, तन्मतेन प्रत्रज्यादिप्रदानात् परलोकप्रवृत्तिविशोधनेन,
इत्थमनेकान्तसिद्धितः सन्नीत्या, तथा निश्चयाङ्गभावेन एवं प्रवृत्त्याऽपूर्व10
करणादिप्राप्तेः। परिशुद्धस्तु केवलमाज्ञापेक्षी पुष्टालम्बनः । एषाऽऽज्ञेह भगवत उभयनयगर्भा, अथवा सर्वत्र पञ्चसूत्रोक्ता । किंविशिष्टा ? इत्याहसमन्तभद्रा, सर्वतो निर्दोषा । कथम् ? इत्याह-त्रिकोटिपरिशुद्धया कषच्छेद-तापपरिशुद्धया । इयं च भागवती सदाज्ञा सर्वेव अपुनर्बन्धकादिगम्या।
अपुनबन्धकादयो ये सच्चा उत्कृष्टां कर्मस्थिति तथा अपुनर्बन्धकत्वेन ये क्षपयन्ति 15 ते खल्वपुनर्बन्धकाः। आदिशब्दान्मार्गाभिमुख-मार्गपतितादयः परिगृह्यन्ते
दृढप्रतिज्ञालोचकादिलिङ्गाः, एतद्गम्येयम् , न संसाराभिनन्दिगम्या, तेषां ह्यतो विषयप्रतिभासमात्रं ज्ञानमुदेति, न तद्धेयत्वादिवेदकमिति । उक्तं च
न यथाऽवस्थितं शास्त्र, खल्वको वेत्ति जातुचित् ।
ध्यामलादपि बिम्बात्तु, निर्मलः स्यात् स्वहेतुतः ॥ [ ] अपुनर्बन्धकत्वादिलिङ्गमाह
एयपियत्तं खलु एत्थ लिंगं, ओचित्तपवित्तिविन्नेयं, संवेगसाहगं नियमा । न एसा अन्नेसि देया । लिंगविवज्जयाओ अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥६९॥” इति प्रमाणवार्तिके स्वार्थानुमानपरिच्छेदे।
"यया धिया....."रूपं..."संवियते प्रच्छाद्यते सा बुद्धिः संवृतिरुच्यते" इति प्रमाणवार्तिकस्य 25 मनोरथनन्दिविरचितायां टीकायाम् ।।
१ मुहय S. Aमू. । "जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१७२॥ यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुश्चत मा हासिष्ठाः, किमित्यत्र अह-व्यवहारन योच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ।
अतो व्यवहारतोऽपि प्रजितः प्रजित एव । गाथार्थः ।" इति आचार्यश्री हरिभद्रसूरिविरचितायां 30 पञ्चवस्तुकस्वोपशवृत्तौ ॥ २ तन्नीत्या S. ॥ ३ तेषां गृह्यतो S. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179