Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 142
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके १क्षुद्रो २लाभरतिर्दीनो मत्सरी भयवान् शठः । अशो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।। . __योगदृष्टि ० ७६, योगबिन्दौ ८७] किमिति न तेभ्यो देया ? इत्याह-तदनुग्रहार्थ संसाराभिनन्दिसत्त्वानु5 ग्रहार्थम् । उक्तं च अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ [लोकतत्त्वनिर्णये ७] इहैव निदर्शनमाह-आमकुम्भोदकन्यासज्ञातेन । उक्तं च आमे घडे निहितं, जहा जलं तं घडं विणासेह । इय सिद्धतरहस्सं, अप्पाहारं विणासेइ ॥ [३पञ्चवस्तुके गा० ९८२] एषा करुणोच्यते, अयोग्येभ्यः सदाज्ञाऽप्रदानरूपा। किंविशिष्टा ? इत्याह-एकान्तपरिशुद्धा, तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन । न पुनर्लानापथ्यप्रदाननिबन्धनकरुणावत् तदाभासेति । इयं चैवंभूता त्रिलोकनाथबहुमानेन हेतुना निःश्रेयससाधिकेति । किमुक्त 15 भवति ? नाऽनागमिकस्येयं भवति, किन्तु परिणतागमिकस्य । अस्य च भगव त्येवं बहुमानः। एवं चेयं मोक्षसाधिकैव सानुबन्धशुभप्रवृत्तिभावेन । प्रव्रज्याफलसूत्रं समाप्तम् , एवं पञ्चमसूत्रव्याख्या समाप्ता॥ ॥ समाप्तं पंञ्चसूत्रकं व्याख्यानतोऽपि ॥ नमः श्रुतदेवतायै भगवत्यै । सर्वनमस्कारार्हेभ्यो नमः। सर्ववन्दनानि 20 वन्दे । सर्वोपकारिणामिच्छामो वैयावृत्यम् । सार्वानुभावादौचित्येन मे धर्मे १. "क्षुद्रः कृपणः । लाभरतिर्याजाशीलः । दीनः सदैवाकल्याणदर्शी। मत्सरी परकल्याणदुःस्थितः। भयवान् नित्यभीतः। शठो मायावी । अज्ञो मूर्खः । भवाभिनन्दी संसारबहुमानी स्यादेवम्भूतो निष्फलारम्भसंगतः सर्वत्रातत्त्वाभिनिवेशादिति ।" इति योगदृष्टिसमच्चयस्य स्वोपज्ञवृत्तौ ।। २ लोभ 1. B. ॥ ३. “आमे घटे निषिक्तं सत् यथा जलं तं घटमामं विनाशयति इय एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः।" इति पञ्चसूत्रकस्वोपक्षवृत्तौ ।। ४. 'अन्येभ्यः' इति क्वचित् पाठ :-Aटि० । अयोगेभ्यः सदाशाऽप्रदानरूपा Aमू० । अयोगेभ्यः प्रदानरूपा S.। ५ तुला-"प्रत्रज्याविधानादीनि पञ्च वस्तूनि यस्मिन् प्रकरणे तत् पञ्चवस्तु, पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं यथाक्रमम्....... कीर्तयिष्यामि" इति आचार्यश्री हरिभद्रसूरिविरचितायां पञ्चवस्तुकप्रथमगाथास्वोपज्ञवृत्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179