Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 129
________________ पञ्चमं प्रवज्याफलसूत्रम् । 5 15 'अत्येति' अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गं'ति पन्थानं मार्गम् उपादानं कर्मेति यावत् , तदत्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम् -अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्षः-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत् , न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरः' ध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवत्र्तेरन् , न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्कः 'एवमेवं चैतत्स्यात्', स च यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् । किमिति तत्र तर्काभाव इति चेदाहमननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात् , तत्र च मोक्षे काशसमन्वितस्प गमनमाहोश्चिन्निष्कर्मणः १, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह-'ओजः' एकोऽशेषमलकलङ्काङ्करहित:; किंचन विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविस्कुवन्नाह-स' परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दी? न ह्रस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो 20 न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुन गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो 'न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्नि आदित्यरश्मय इवांशुमन्तमिति, तथा न रहा, "रुह, बीजजन्मनि प्रादुर्भावे च" [पा० धा० ८५९] रोहती.ते रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च- ___25 "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरनिष्ठाम् । मुक्तः स्वयंकृतभवश्व परार्थशूरस्त्वच्छासनप्रतिहतेविह मोहराज्यम् ॥ १॥” तथा च न विद्यते सङ्गोऽमूतत्त्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत् , तन्न, यत आह-उपमीयते ____30 सादृश्यात् परिच्छिद्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिग. त्वात्तेषाम् , कुत एतदिति चेदाह-तेषां मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च-न विद्यते पदम्-अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यतेगम्यते येनार्थस्तत्वदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात् , तथाहियोऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह. 35 यदिवा दीर्घ इत्यादिना रूपादिवशेषनिराकरणं कृतम् , इह तु तत्सामान्यनिराकरणं कर्तुकाम आह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179