________________
पञ्चमं प्रवज्याफलसूत्रम् ।
5
15
'अत्येति' अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गं'ति पन्थानं मार्गम् उपादानं कर्मेति यावत् , तदत्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम् -अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्षः-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत् , न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरः' ध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवत्र्तेरन् , न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्कः 'एवमेवं चैतत्स्यात्', स च यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् । किमिति तत्र तर्काभाव इति चेदाहमननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात् , तत्र च मोक्षे काशसमन्वितस्प गमनमाहोश्चिन्निष्कर्मणः १, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह-'ओजः' एकोऽशेषमलकलङ्काङ्करहित:; किंचन विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविस्कुवन्नाह-स' परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दी? न ह्रस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो 20 न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुन गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो 'न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्नि आदित्यरश्मय इवांशुमन्तमिति, तथा न रहा, "रुह, बीजजन्मनि प्रादुर्भावे च" [पा० धा० ८५९] रोहती.ते रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च- ___25 "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरनिष्ठाम् । मुक्तः स्वयंकृतभवश्व परार्थशूरस्त्वच्छासनप्रतिहतेविह मोहराज्यम् ॥ १॥” तथा च न विद्यते सङ्गोऽमूतत्त्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत् , तन्न, यत आह-उपमीयते ____30 सादृश्यात् परिच्छिद्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिग. त्वात्तेषाम् , कुत एतदिति चेदाह-तेषां मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च-न विद्यते पदम्-अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यतेगम्यते येनार्थस्तत्वदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात् , तथाहियोऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह. 35 यदिवा दीर्घ इत्यादिना रूपादिवशेषनिराकरणं कृतम् , इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org