________________
5
10
}
15
20
25
30
इदानी पश्च व्याख्या प्रक्रम्यते । अस्य चायमभिसंबन्धः - इहानन्तरसूत्रे प्रव्रजितस्य चर्योक्ता, इह तु परं तत्फलमभिधातुमाह
स एवमभिसिद्धे, परमबंभे, मंगलालए, जम्म-जरामरणरहिए, पहीणासु, अणुबंधसत्तिवज्जिए, संपत्तनिय सरूवे, अकिरिए, सहावसंठिए, अनंतनाणे, अनंतदंसणे ।
स एवमभिसिद्धे परमबंभे मंगलालये जम्म-जरा-मरणरहिएत्यादि । स प्रक्रान्तः प्रव्रज्याकारी, एवमुक्तेन सुखपरम्पराप्रकारेण अभिषिद्धः सन् । किंभूत इत्याह- परमब्रह्म सदाशिवत्वेन । मङ्गलालयः, गुणोकर्मयोगेन । जन्म- जरा - मरणरहितो निमित्ताभावेन । यथोक्तम्
दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः । इति [' तत्त्वार्थका ० ८ ] प्रक्षीणाशुभः एकान्तेन, अनुबन्धशक्तिवर्जितः अशुभमङ्गीकृत्य, अत एव संप्राप्तनिजस्वरूपः केवलो जीवः, अक्रियो गमनादिशून्यः, स्वभावसंस्थितः सांसिद्धिकधर्मवान् । अत एवाह - अनन्तज्ञानोऽनन्तदर्शनः ज्ञेयानन्तत्वात् । स्वभावश्वास्यायमेव । यथोक्तम्
"स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ [ योगदृष्टि ० १८३ ] or areas वर्ण-रूपाभ्याम् ? इत्याशङ्कापोहायाह
३
न
स, न रूवे, न गंधे, न रसे, न फासे,
१ " दग्धे इत्यादि । बीजेऽत्यन्तं भस्मसात् कृते नाङ्कुरस्य प्रादुर्भावः एवं कर्मबीजे ध्वस्ते संसाराङ्कुरस्याप्रादुर्भाव ” इति तत्त्वार्थभाष्यस्य अन्ते विद्यमानानां कारिकाणां सिद्धसेनगणिविरचितायां टीकायाम् ॥
Jain Education International
२ " स्थितः, न स्थापनीयः, शीतांशुवच्चन्द्रवत् जीव:-आत्मा, प्रकृत्याऽऽत्मीयया भावशुद्धया तत्त्वशुद्धयेत्यर्थः ॥ १८३ ।” इति योगदृष्टिसमुच्चयस्य आचार्यश्री हरिभद्रसूरिविरचितायां स्वोपज्ञवृत्तौ ॥
३ तुला - "अच्चेइ जाईमरणस्स वमग्गं विक्खायरए, सव्वे सरा निय ंति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्टाणस्स खेयन्ने, से न दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसे, न परिमंडले, न किन्हे, न नीले, न लोहिए, न हालिद्दे, न सुक्किल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गरुए, न लहुए, न उण्हे, न निद्ध, न लुक्खे, न काऊ, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा, परिन्ने, सन्ने, उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि । "
For Private & Personal Use Only
www.jainelibrary.org