Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 113
________________ . चतुर्थं प्रव्रज्यापरिपालनासूत्रम् । पाती प्रतिपाती चेत्यर्थः । अयं च यथासंख्यं मानुष्ये क्षायोपशमिक-क्षायिक. चारित्ररूपः, क्षायोपशमिक-क्षायिकज्ञानरूपश्च । उभयत्रायो नाँक्षेपेणेष्टसिद्धये, सप्रत्यपायत्वात् । चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् । सम्यगेतद् विजानाति । न केवलं विजानाति, अस्पन्दन वत्-स्थिरार्थमुद्यमं करोति सूत्रनीत्या। कथम् ? इत्याह-यथाशक्ति शक्त्यनुरूपम् , असंभ्रान्तो भ्रान्तिरहितः, अनुत्सुक औत्सुक्यरहितः फलं प्रति । असंसक्तयोगाराधको भवति, निः; सपत्नश्रामण्यव्यापारकर्ता, सूत्रानुसारित्वात् । सूत्रं चतत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति । असावपि द्वेधा सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनः, विपरीतस्त्वसन्दीन: सिंहलद्वीपादिः, यथा हि सायात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः । यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्य-चन्द्र-मण्यादिरसन्दीनः, अपरस्तु विद्युदुल्कादिः सन्दीनः, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनः, विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा कचित्समुद्राद्यन्तर्वर्तिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाशोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति । अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते, तद्यथा-भावद्वीपः सम्यक्त्वम् , तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च संदीनो भावद्वीपः, क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति । भावदीपस्तु सन्दीनः श्रुतज्ञानम् , असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति । अथवा धर्म संदधानः समुत्थितः सन्नरतेदुष्प्रधष्यो भवतीत्युक्ते कश्चिचोदयेत्-किम्भूतोऽसौ धर्मो यत्सन्धानाय समुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीन:-असलिलप्लुतोऽवरुग्णवहनानामितरेषां च बहूनां जन्तूनां शरण्यतया आश्वासहेतुर्भवत्येवमसावपि धर्मः 'आर्यप्रदेशितः' तीर्थकरप्रणीतः कष-ताप-च्छेदनिपीटतोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यतयाऽ सन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिभवति ।” इति शीलाचार्यविरचितायाम् आचारागसत्रटीकायाम् पृ० २४७-२४८ ॥ १ 'यथासङ्खय'शब्देन स्पन्दनवदस्थिरादिभेदो द्वीपो दीपश्च ग्राह्यः ॥ २ "क्षायोपशमिकक्षायिकचारित्रयोः स्पन्दनवदस्पन्दनवत्पदवाख्ययोर्मध्येऽस्पन्दनबत्पदेन क्षायिकचारित्रमुच्यते इति । तथा स्थिरा-ऽस्थिरपदवाच्ययोः क्षायिक-क्षायोपशमिकज्ञानयोर्मध्ये स्थिरपदेन क्षायिकज्ञानं केवलज्ञानरूपं गृह्यते । ततस्तदुभयावाप्त्यै यतेत्यर्थः (यतत इत्यर्थः?)" -Aटि. ॥ ३ उभयत्राद्यो नाक्षेपेणेष्टसिद्धये इति हस्तलिखितादर्शेषु पाठः । अत्र यदि न अक्षेपेणेष्टसिद्धये इति पदच्छेदः स्वीक्रियते तदा क्षेपः कालविलम्बः इत्यर्थः, 'न अविलम्बेन, किन्तु विलम्बेन इष्टसिद्धये' इत्याशयः । यदि तु 'न आक्षेपेण इष्टसिद्धये' इति 'अनाक्षेपेण इष्टसिद्धये इति वा पदच्छेदः स्वोक्रियते तदा 'इष्टसिद्धिं साक्षान्नाक्षिपति, किन्तु परम्परया इष्टसिद्धिर्भवति' - इत्याशयो भवेत् ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179