________________
.
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् । पाती प्रतिपाती चेत्यर्थः । अयं च यथासंख्यं मानुष्ये क्षायोपशमिक-क्षायिक. चारित्ररूपः, क्षायोपशमिक-क्षायिकज्ञानरूपश्च । उभयत्रायो नाँक्षेपेणेष्टसिद्धये, सप्रत्यपायत्वात् । चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् । सम्यगेतद् विजानाति ।
न केवलं विजानाति, अस्पन्दन वत्-स्थिरार्थमुद्यमं करोति सूत्रनीत्या। कथम् ? इत्याह-यथाशक्ति शक्त्यनुरूपम् , असंभ्रान्तो भ्रान्तिरहितः, अनुत्सुक औत्सुक्यरहितः फलं प्रति । असंसक्तयोगाराधको भवति, निः; सपत्नश्रामण्यव्यापारकर्ता, सूत्रानुसारित्वात् । सूत्रं चतत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति । असावपि द्वेधा सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनः, विपरीतस्त्वसन्दीन: सिंहलद्वीपादिः, यथा हि सायात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः । यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्य-चन्द्र-मण्यादिरसन्दीनः, अपरस्तु विद्युदुल्कादिः सन्दीनः, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनः, विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा कचित्समुद्राद्यन्तर्वर्तिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाशोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति । अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते, तद्यथा-भावद्वीपः सम्यक्त्वम् , तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च संदीनो भावद्वीपः, क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति । भावदीपस्तु सन्दीनः श्रुतज्ञानम् , असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति । अथवा धर्म संदधानः समुत्थितः सन्नरतेदुष्प्रधष्यो भवतीत्युक्ते कश्चिचोदयेत्-किम्भूतोऽसौ धर्मो यत्सन्धानाय समुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीन:-असलिलप्लुतोऽवरुग्णवहनानामितरेषां च बहूनां जन्तूनां शरण्यतया आश्वासहेतुर्भवत्येवमसावपि धर्मः 'आर्यप्रदेशितः' तीर्थकरप्रणीतः कष-ताप-च्छेदनिपीटतोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यतयाऽ सन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिभवति ।” इति शीलाचार्यविरचितायाम् आचारागसत्रटीकायाम् पृ० २४७-२४८ ॥
१ 'यथासङ्खय'शब्देन स्पन्दनवदस्थिरादिभेदो द्वीपो दीपश्च ग्राह्यः ॥ २ "क्षायोपशमिकक्षायिकचारित्रयोः स्पन्दनवदस्पन्दनवत्पदवाख्ययोर्मध्येऽस्पन्दनबत्पदेन क्षायिकचारित्रमुच्यते इति । तथा स्थिरा-ऽस्थिरपदवाच्ययोः क्षायिक-क्षायोपशमिकज्ञानयोर्मध्ये स्थिरपदेन क्षायिकज्ञानं केवलज्ञानरूपं गृह्यते । ततस्तदुभयावाप्त्यै यतेत्यर्थः (यतत इत्यर्थः?)" -Aटि. ॥ ३ उभयत्राद्यो नाक्षेपेणेष्टसिद्धये इति हस्तलिखितादर्शेषु पाठः । अत्र यदि न अक्षेपेणेष्टसिद्धये इति पदच्छेदः स्वीक्रियते तदा क्षेपः कालविलम्बः इत्यर्थः, 'न अविलम्बेन, किन्तु विलम्बेन इष्टसिद्धये' इत्याशयः । यदि तु 'न आक्षेपेण इष्टसिद्धये' इति 'अनाक्षेपेण इष्टसिद्धये
इति वा पदच्छेदः स्वोक्रियते तदा 'इष्टसिद्धिं साक्षान्नाक्षिपति, किन्तु परम्परया इष्टसिद्धिर्भवति' - इत्याशयो भवेत् ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org