Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 123
________________ 5 चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । आरण-उच्चुयाणं देवाणं तेउलेस्सं वीतीवयति । एक्कारसमासपरियाए समणे णिग्गंथे गेविज्जाणं देवाणं तेउलेसं वीतीवयति । बारसमासपरियाए अणुत्तरोववातियाणं देवाणं तेउलेसं वीतीवयति । तेण परं सुक्के सुक्काभिजाती भवित्ता सिन्झति, जाव अंतं करेति । [ भगवती० १४.९ ] अत्र तेजोलेश्या चित्तसुखलाभलक्षणा । अत एवाह-ततः शुक्ल[:] शुक्लाभिजात्यो भवति । तत्र शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यश्चैतत्प्रधानः । प्रायश्छिन्नकर्मानुबन्धः, न तद्वेदयंस्तथाविधमन्यद् बध्नाति । प्रायोग्रहणमचिन्त्यत्वात् कर्मशक्तेः कदाचिद बध्नात्यपि । स एवंभूतः क्षपति लोकसंज्ञां भगवद्वचनप्रतिकूलां प्रभूतसंसाराभिनन्दिसत्त्व क्रियाप्रीतिरूपामिति । अत एवाह-प्रतिस्रोतोगामी लोकाचारप्रवाहनदीं प्रति । अनुस्रोतोनिवृत्तः एनामेवाधिकृत्य, एतदभ्यासत एव, न्याय्यं चैतत् । यथोक्तम् --- 'अणुसोयपठिए बहुजणंमि पडिसोयलद्धलक्षेण । पडिसोयमेव अप्पा दायब्वा होउकामेण । अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो पडिसोओ तस्स णिप्फेण ॥ [दशवैकालिके गा. ५६१-५६२] १ भविता S. Aमू० ॥२ 'अत्र तेजोलेश्या चित्तसुखलाभलक्षणा' इति पाठः S मध्ये Aमू० मध्ये च नास्ति ॥ "अणुसोयपठिए बहुजणम्मि पडिसोयलद्धलक्खेणं । पडिसोयमेव अप्पा दायव्यो होउकामेणं ॥५६१।। अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो ॥५६॥" इति दशेवैकालिकसूत्रस्य द्वितीयायां चूलिकायाम् । अगस्त्यसिंहसूरिकृतायां दशवकालिकचूर्णी 'तस्स उत्तारो' इत्यस्य स्थाने 'तस्स निप्फेडो' इति पाठः । वृद्धविवरणे तु 'तस्स निग्घाडो' इति पाठः। अस्य गाथाद्वयस्य आचार्यश्री हरिभद्रसूरिकृता व्याख्या--"अनुस्रोत:प्रस्थिते नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्पेन प्रवृत्ते बहुजने तथा विद्याभ्यासात प्रभतलोके तथा प्रस्थानेन उदधिगामिनि, किमित्याह-प्रतिस्रोतोलमधलभोग स्तस्यामेव नद्यां कथञ्चिद् देवतानियोगात् प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषया दिवैपरीत्यात कथचिदवाप्तसंयमलक्ष्येण प्रतिस्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव आत्मा जीवो दातव्यः प्रवर्त्तयितव्यः भवितुकामेन संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्तव्यम् , अपि त्यागमैकप्रवणेनैव भवितव्यमिति । उक्तं च-"निमित्तमासाद्य यदेव किञ्चन स्वधर्ममार्ग विसृजन्ति बालिशाः । 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179