Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
________________
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ । तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा । - एवं शुक्लपाक्षिको महापुरुषः परीत्तसंसार इत्यर्थः । यथोक्तम्-..
जैस्स अवड्ढो पोग्गलपरियट्टो सेसओ य संसारो । सो सुक्कपक्खिओ खलु, अहिगे पुण कण्हपक्खीओ । [श्रावकप्रज्ञप्ती गा० ७२]
किमयम् ? इत्याह-संसारकान्तारपतितः सन् मातापितृसङ्गतः, उपलक्षणमेतत् भार्यादीनाम् , धर्मप्रतिबद्धो विहरेत् , तयोर्मातापित्रोस्तत्र संसारकान्तारे नियमविनाशकः अप्राप्तबीजादिपुरुषमात्रासाध्यः संभवत्सम्यक्त्वाद्यौषधो मरणादिविपाकः कर्मातङ्क: स्यात् , क्लिष्टं 10 कर्मेत्यर्थः । तत्रासौ शुक्लपाक्षिकः पुरुषः धर्मप्रतिबन्धाद्धेतोः एवं समालोच्य 'विनश्यत एतौ मातापितरौ अवश्यं सम्यक्त्वाद्यौषधविरहेण सम्यक्त्वाद्यौषधाभावेन । तत्संपादने सम्यक्त्वाद्यौषधसंपादने विभाषा 'कदाचिदेतत् संपादयितुं शक्यते कदाचिन्न' इत्येवंरूपा । कालसहौ चैतौ व्यवहारतः, तथा जीवनसंभवात् , निश्चयतस्तु न । यथोक्तम्
आयषि बहुपसर्गे वाताहतसलिलबुदबुदानित्यतरे । उच्छ्वस्य निःश्वसिति यः सुप्तो वा यद्विधुध्यते तच्चित्रम् ॥' [ ]
तथा तेन सौविहित्यापादनप्रकारेण संस्थाप्य संस्थाप्य इहलोकचिन्तया तयोर्मातापित्रोः सम्यक्त्वाद्यौषधनिमित्तं विशिष्टगुर्वादिभावेन धर्मकथादिभावात् स्ववृत्तिनिमित्तं च कृत्यकरणेन हेतुना त्यजन् संयमप्रति पत्त्या तौ मातापितरौ साधुः धर्मशीलः सिद्धौ सिद्धिविषये ।
किमित्येतदेवम् ? इत्याह-एष त्यागोऽत्यागः, तत्त्वभावनातस्तद्धितप्रवृत्तेः। अत्याग एव त्यागः, मिथ्याभावनातस्तदहितप्रवृत्तेः। तत्त्वफलं सानुबन्धमत्र प्रधानं बुधानां परमार्थतः परमार्थेन । धीरा एतद्दर्शिन आसन्नभव्या, नान्ये ।। १ घुहाणं नास्ति K1 विना ॥ २ दृश्यतां पृ० २ टि० २। यस्य अ(उ?)पार्धः पुद्गलपरिवर्तः शेषकश्च संसारः। स शुक्लपाक्षिकः खलु, अधिके पुनः कृष्णपाक्षिकः ॥ ३ संस्थाप्य इहलोकचिन्तया S.॥
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179