SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ । तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा । - एवं शुक्लपाक्षिको महापुरुषः परीत्तसंसार इत्यर्थः । यथोक्तम्-.. जैस्स अवड्ढो पोग्गलपरियट्टो सेसओ य संसारो । सो सुक्कपक्खिओ खलु, अहिगे पुण कण्हपक्खीओ । [श्रावकप्रज्ञप्ती गा० ७२] किमयम् ? इत्याह-संसारकान्तारपतितः सन् मातापितृसङ्गतः, उपलक्षणमेतत् भार्यादीनाम् , धर्मप्रतिबद्धो विहरेत् , तयोर्मातापित्रोस्तत्र संसारकान्तारे नियमविनाशकः अप्राप्तबीजादिपुरुषमात्रासाध्यः संभवत्सम्यक्त्वाद्यौषधो मरणादिविपाकः कर्मातङ्क: स्यात् , क्लिष्टं 10 कर्मेत्यर्थः । तत्रासौ शुक्लपाक्षिकः पुरुषः धर्मप्रतिबन्धाद्धेतोः एवं समालोच्य 'विनश्यत एतौ मातापितरौ अवश्यं सम्यक्त्वाद्यौषधविरहेण सम्यक्त्वाद्यौषधाभावेन । तत्संपादने सम्यक्त्वाद्यौषधसंपादने विभाषा 'कदाचिदेतत् संपादयितुं शक्यते कदाचिन्न' इत्येवंरूपा । कालसहौ चैतौ व्यवहारतः, तथा जीवनसंभवात् , निश्चयतस्तु न । यथोक्तम् आयषि बहुपसर्गे वाताहतसलिलबुदबुदानित्यतरे । उच्छ्वस्य निःश्वसिति यः सुप्तो वा यद्विधुध्यते तच्चित्रम् ॥' [ ] तथा तेन सौविहित्यापादनप्रकारेण संस्थाप्य संस्थाप्य इहलोकचिन्तया तयोर्मातापित्रोः सम्यक्त्वाद्यौषधनिमित्तं विशिष्टगुर्वादिभावेन धर्मकथादिभावात् स्ववृत्तिनिमित्तं च कृत्यकरणेन हेतुना त्यजन् संयमप्रति पत्त्या तौ मातापितरौ साधुः धर्मशीलः सिद्धौ सिद्धिविषये । किमित्येतदेवम् ? इत्याह-एष त्यागोऽत्यागः, तत्त्वभावनातस्तद्धितप्रवृत्तेः। अत्याग एव त्यागः, मिथ्याभावनातस्तदहितप्रवृत्तेः। तत्त्वफलं सानुबन्धमत्र प्रधानं बुधानां परमार्थतः परमार्थेन । धीरा एतद्दर्शिन आसन्नभव्या, नान्ये ।। १ घुहाणं नास्ति K1 विना ॥ २ दृश्यतां पृ० २ टि० २। यस्य अ(उ?)पार्धः पुद्गलपरिवर्तः शेषकश्च संसारः। स शुक्लपाक्षिकः खलु, अधिके पुनः कृष्णपाक्षिकः ॥ ३ संस्थाप्य इहलोकचिन्तया S.॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy