Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 101
________________ तृतीय प्रव्रज्याग्रहणविधिसूत्रम् । 10 ___ 15 'निवेदनं' गुर्वादिजनस्य ज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति ॥२७॥ न्वेवं मायाविनः प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह न धर्म मायेति ॥२८॥ (२५४) 'न' नैव धर्मे साध्ये माया क्रियामाणा 'माया' वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह उभयहितमेतदिति ॥२९॥ (२५५) उभयस्य-स्वस्य गुर्वादिजनस्य च हितं-श्रेयोरूपम् एतद्-एवं प्रव्रज्याविधौ मायाकरणम् , एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् , पठ्यते च-"अमायोऽपि हि भावेन, माय्येव तु भवेत्कचित् । पश्येत्स्वपरयोर्यत्र, सानुबन्धं हितोदयम् ॥ ॥१४९॥" अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह यथाशक्ति सौविहित्यापादनमिति ॥३०॥ (२५६) 'यथाशक्ति' यस्य यावती शक्तिः शतसहस्त्रादिप्रमाणनिर्वाह हेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य-सौस्थ्यस्यापादनं-विधानं येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति, तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजं, ततस्तेनानुज्ञातः प्रव्रजेदिति ॥३०॥ अथैवमपि न तं मोक्तुमसावुत्सहते तदा ग्लानौषधादिशातात्याग इति ॥३१।। (२५७) ग्लानस्य-तथाविधयाधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य औषधादिज्ञातात्-. औषधस्य आदिशब्दात् स्वनिर्वाहस्य च ग्रहः, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधायेव ज्ञातं-दृष्टान्तः, तस्मात् त्यागः कार्यो गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतः तत्प्रतिबद्धश्च तत्र व्रजेत् , तस्य च गुर्वादे तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यः तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्क: स्यात् , तत्र चासौ तत्प्रतिबन्धादेवमालोचयति-यथा न भवति नियमादेष गुरुजनो नीरुक औषधादिमन्तरेण, औषधादिभावे च संशयः कदाचित्स्यात् कदाचिन्नेति, कालसहश्चायम् , ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्त स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधानम् , धीराश्चैतद्दर्शिन एव भवन्ति, तत औषधसंपादनेन तं जीवयेदपीति , संभवात् सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसंगतो धर्मप्रतिबद्धो विहरेत् , तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः संभवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कः स्यात् , तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदत-विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्संपादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावदगृहवासं निर्वाहादिचिन्तया तथा तथा संस्थाप्य तेषां सम्यक्त्वाद्योषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धया साधुरेव. एष त्यागोऽत्यागस्तत्त्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानाम् , यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसंपादनेन जीवयेदा 25 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179