________________
तृतीय प्रव्रज्याग्रहणविधिसूत्रम् ।
10
___ 15
'निवेदनं' गुर्वादिजनस्य ज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति ॥२७॥ न्वेवं मायाविनः प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह
न धर्म मायेति ॥२८॥ (२५४) 'न' नैव धर्मे साध्ये माया क्रियामाणा 'माया' वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह
उभयहितमेतदिति ॥२९॥ (२५५) उभयस्य-स्वस्य गुर्वादिजनस्य च हितं-श्रेयोरूपम् एतद्-एवं प्रव्रज्याविधौ मायाकरणम् , एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् , पठ्यते च-"अमायोऽपि हि भावेन, माय्येव तु भवेत्कचित् । पश्येत्स्वपरयोर्यत्र, सानुबन्धं हितोदयम् ॥ ॥१४९॥" अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह
यथाशक्ति सौविहित्यापादनमिति ॥३०॥ (२५६) 'यथाशक्ति' यस्य यावती शक्तिः शतसहस्त्रादिप्रमाणनिर्वाह हेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य-सौस्थ्यस्यापादनं-विधानं येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति, तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजं, ततस्तेनानुज्ञातः प्रव्रजेदिति ॥३०॥ अथैवमपि न तं मोक्तुमसावुत्सहते तदा
ग्लानौषधादिशातात्याग इति ॥३१।। (२५७) ग्लानस्य-तथाविधयाधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य औषधादिज्ञातात्-. औषधस्य आदिशब्दात् स्वनिर्वाहस्य च ग्रहः, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधायेव ज्ञातं-दृष्टान्तः, तस्मात् त्यागः कार्यो गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतः तत्प्रतिबद्धश्च तत्र व्रजेत् , तस्य च गुर्वादे तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यः तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्क: स्यात् , तत्र चासौ तत्प्रतिबन्धादेवमालोचयति-यथा न भवति नियमादेष गुरुजनो नीरुक
औषधादिमन्तरेण, औषधादिभावे च संशयः कदाचित्स्यात् कदाचिन्नेति, कालसहश्चायम् , ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्त स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधानम् , धीराश्चैतद्दर्शिन एव भवन्ति, तत औषधसंपादनेन तं जीवयेदपीति , संभवात् सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसंगतो धर्मप्रतिबद्धो विहरेत् , तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः संभवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कः स्यात् , तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदत-विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्संपादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावदगृहवासं निर्वाहादिचिन्तया तथा तथा संस्थाप्य तेषां सम्यक्त्वाद्योषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धया साधुरेव. एष त्यागोऽत्यागस्तत्त्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानाम् , यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसंपादनेन जीवयेदा
25
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org