SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 10 ___ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके खु हियं सव्वसत्ताणं । तहा तहेयं संपाडेज्जा । सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणोसहत्थचागनाएणं । ___ अबुज्झमाणेसु इत्यादि । अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया, विध्यात यथाशक्ति शक्त्यनुसारेण तदुपकरणमर्थजातादीत्यर्थः । किम् ? कारणे कार्योपचारात् । किंभूतम् ? इत्याह-आयोपायशुद्धं स्वमत्या । ततोऽन्यसंभूतिरायः, कलान्तरादिरुपायः । किमेतदेवं कुर्यात् ? इत्याह-कृतज्ञतैवैषा वर्तते, करुणा च । किंविशिष्टेयम् ? इत्याह-धर्मप्रधानजननी जने, शासनोन्नतिनिमित्तमित्यर्थः । ततोऽनुज्ञातः सन् मातापित्रादिभिरिति प्रक्रमः। प्रतिपद्येत धर्म चारित्रलक्षणम् । अन्यथैवमपि तदनुज्ञाऽभावे, अनुपध एव भावतः, उपधायुक्तः स्यात्, व्याजवान् स्यादित्यर्थः। उक्तं च निर्माय एव भावेन मायावांस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबन्धं हितोदयम् ॥ [ ] १ सहचाग° S.|| तुला-" तथा-गुरुजनाद्यनुज्ञेति ।।२३।। (२४९) गुरुजनो-मातापित्रादिलक्षणः, आदिशब्दात् भगिनीभार्यादिशेषसंबन्धिलोकपरिग्रहः, तस्य अनुज्ञा-प्रश्रज त्वमित्यनुमतिरूपा, विधिरित्यनुवर्तते ॥२३॥ यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यद्विधेयं तदाह तथा तथोपधायोग इति ॥२४॥ (२५०) 'तथा तथा' तेन लेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन ‘उपधायोगः' मायायाः प्रयोजनम् ॥२४|| कथमित्याह दुःस्वप्नादिकथनमिति ॥२५॥ (२५१) दुःस्वप्नस्य-खरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातुमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं-गुर्वादिनिवेदनामिति ॥२५॥ तथा-विपर्ययलिङ्गसेवेति ॥२६॥ (२५२) विपर्यय:-प्रकृतिविपरीतभावः स एव मरणसूचकत्वात् लिङ्गम् , तस्य सेवा-निषेवणं कार्य येन स गर्वादिजनः संनिहितमृत्युरयमित्यवबुध्य प्रवज्यामनुजानीते इति विपर्ययलिङ्गानि ॥२६॥ तेष स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह देवस्तथा तथा निवेदनमिति ॥२७॥ (२५३) 'देवः' नि मेत्तशास्त्रपाटकैः ‘तथा तथा' तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन 20 30. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy