Book Title: Nyayabindu
Author(s): Dharmottaracharya
Publisher: Chaukhambha Sanskrit Granthmala

View full book text
Previous | Next

Page 189
________________ तृतीयपरिच्छेदः निश्चयविपर्यय इत्यस्ति विपर्ययसिद्धिरिति । दृषणाभासास्तु जातयः। उक्ता दक्षणाभासा इति । दूषणेवदाभासन्त इति दृषणाभासाः । के ते जातयः। जातिशब्दः सादृश्यवचन उत्तरसदृशानि जात्युत्तराणीति । उत्तरस्थानप्रयुक्तत्वादुत्तरसदृशानि जात्युत्तराणि । तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह अनुभूतदोषोद्भावनानि जात्युत्तराणीति । अभूतस्यासत्यस्य दोषस्योद्भावनानि । उद्भाव्यत एतैरित्युद्भावनानि वचनानि तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ।। इति तृतीयः परिच्छेदः समाप्तः । कतिपयपदवस्तुव्याख्यया यन्मयाप्त कुशलममलमिन्दोरंशुवन्यायविन्दोः । पदमजरमवाप्य ज्ञानधर्मोत्तरं य. ज्जगदुपकृतिमात्रव्यापृतिः स्यामतोऽहम् ।। ... १ अस्ति, ख० मस्त्येव । २ दूषणवत्, बं० दृषणावत । ३'इति' इति पदं ख० पुस्तके न विद्यते। - ४ अथ श्रीधर्मोत्तराचार्यः म्वाभिप्रायप्रकाशपुरःसरं कृतिमुप संहरबाह-कतिपयेति। यत् । मया धर्मोत्तराचार्येण। इन्दोश्चन्द्र स्य । अंशुवत् किरणवत् । न्यायबिन्दोन्यायविन्दुः नाम अस्य प्र. न्थस्य । कतिपयान्यमूनि पदानि तान्येव वस्तूनि तेषां व्याख्या तया न्यायबिन्दुटीकया इत्यर्थः । कुशलं निर्विघ्नं । अमलं निर्मलं । अजरं अनश्यं । पदं । अवाप्य प्राप्य । यत्। झानं च धर्म च शानधर्मे ता.

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230