________________
तृतीयपरिच्छेदः
निश्चयविपर्यय इत्यस्ति विपर्ययसिद्धिरिति ।
दृषणाभासास्तु जातयः। उक्ता दक्षणाभासा इति । दूषणेवदाभासन्त इति दृषणाभासाः । के ते जातयः। जातिशब्दः सादृश्यवचन उत्तरसदृशानि जात्युत्तराणीति । उत्तरस्थानप्रयुक्तत्वादुत्तरसदृशानि जात्युत्तराणि । तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह
अनुभूतदोषोद्भावनानि जात्युत्तराणीति ।
अभूतस्यासत्यस्य दोषस्योद्भावनानि । उद्भाव्यत एतैरित्युद्भावनानि वचनानि तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ।।
इति तृतीयः परिच्छेदः समाप्तः । कतिपयपदवस्तुव्याख्यया यन्मयाप्त कुशलममलमिन्दोरंशुवन्यायविन्दोः । पदमजरमवाप्य ज्ञानधर्मोत्तरं य. ज्जगदुपकृतिमात्रव्यापृतिः स्यामतोऽहम् ।। ...
१ अस्ति, ख० मस्त्येव । २ दूषणवत्, बं० दृषणावत ।
३'इति' इति पदं ख० पुस्तके न विद्यते। - ४ अथ श्रीधर्मोत्तराचार्यः म्वाभिप्रायप्रकाशपुरःसरं कृतिमुप
संहरबाह-कतिपयेति। यत् । मया धर्मोत्तराचार्येण। इन्दोश्चन्द्र स्य । अंशुवत् किरणवत् । न्यायबिन्दोन्यायविन्दुः नाम अस्य प्र. न्थस्य । कतिपयान्यमूनि पदानि तान्येव वस्तूनि तेषां व्याख्या तया न्यायबिन्दुटीकया इत्यर्थः । कुशलं निर्विघ्नं । अमलं निर्मलं । अजरं अनश्यं । पदं । अवाप्य प्राप्य । यत्। झानं च धर्म च शानधर्मे ता.