________________
१३२ - न्यायविन्दुः सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यमेभिः प्र. तिपादयितुम् । . तदर्थापत्त्यैषां निरासो वेदितव्यः । - तस्मादर्थापत्या सामर्थ्येनेति' तेषां निराकरणं द्रष्टव्यम् । साध्यनियतसाधनप्रतीतय उपात्ताः । तदसमर्था दुष्टाः स्वकार्यकरणादिति सामर्थ्यम् । इयता साधनमुक्तम् । . . दूषणं वक्तुमाह
दूषणा न्यूनतायुक्तिः। दृषणा का द्रष्टव्या । न्यूनतादीनामुक्तिरुच्यते । न येत्युक्तिर्वचनं न्यूनतादिर्वचनम् ।
दृषणं विवरीतुमाह - ये पूर्व न्यूनतादयः साधनादोषा उक्तास्तेषामुद्भावनं
दूषणम् । ये पूर्व न्यूनतादयोऽसिद्धविरुद्धानकान्तिका उक्तास्तेषामुद्भावनं यद्वचनं तदुषणम् ।
ननु च न्यूनतादयो न विपर्यसाधनास्तत्कथं दृषणमित्याह
तेन परेष्टार्थसिद्धिप्रतिबन्धात् । । तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिनिश्चयस्तस्याः प्रतिबन्धानावश्यं विपर्ययसाधनादेव दुपणं विरुदवदपि तु परस्याभिप्रेतनिश्चयनिबन्धानिश्चयाभावो भवति ।
१ मुद्रितपुस्तके 'इति न तेषां' इति पाठोऽस्ति । किन्त्वस्माकं सम्मतो 'न' इति पदं नात्र युज्यते ।
२ प्रतीतये, ख० प्रतिपत्तये।