________________
तृतीयपरिच्छेदः
१३१
साध्यनियतो हेतुर्दर्शयितव्यः । यदा च साध्यनियतो हेतुर्दर्शयितव्यस्तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते साधनसत्तायामपि साध्याभावः संभाव्येते । तथा च साधनं साध्यनियतं न प्रतीयेते । तस्मात्साध्याभावः साधनाभावे नियंतो वक्तव्यः । विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते । न साध्याभावः साधनाभावे । तथा हि । यदकृतकमिति साधनाभावमनूय तन्नित्यमिति साध्याभावविधिः । ततोs यमर्थः । अतको नित्य एव । तथा च सत्यकृतकत्वं नित्यत्वे साध्यभावे नियतमुक्तं न नित्यत्वं साधनाभावे । ततो न साध्यः नियतं हेतुं व्यतिरेकवाक्यमाह । तथा च विपरीतव्यतिरेकोsपि वक्तुरपराधाद्दुष्टः ।
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाहन ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वंविपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा ।
न भिरिति । साध्यनियतहेतुप्रदर्शनाय दृष्टान्ता वक्तव्याः । एभिश्व हेतोः सपक्ष एव सवं विपक्षे च सर्वत्रासत्वमेव यत्सा - मान्यलक्षणं तन्निश्चयेन न शक्यं दर्शयितुम् । ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतित्तव्यं न स्वत एवेत्याह । विशेषलक्षणं वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत । स्यादेव
१ ख० संभाव्यते ।
२ ख० प्रतीयते ।
३ ० प्रदर्शनाय, ख० प्रदर्शना हि ।