________________
१३०
न्यायबिन्दुः सिद्धोऽस्य चार्थस्य प्रसिद्धये दृष्टान्तस्तत्स्वकार्याकरणादुष्टः । अप्रदर्शितव्यतिरेको यथा-अनित्यः शब्दः कृतकत्वा
दाकाशवदिति । ___ अप्रदर्शितो व्यतिरेको यस्मिन्स तथोक्तः । अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । आकाशवदिति वैधर्मेण दृष्टान्तः । इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते । स तावद्यथा प्रकाशितस्तथा न युक्तो यथा युक्तस्तथा न प्रकाशितः । प्रका. शितश्च हेतुः । अतो वक्तुरपराधादपि परार्थानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिरपि तु साध्यनियतादेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन व्यतिरेकवाक्येन च वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेनं सिद्धो दर्शयितव्यः । तस्माद्द. ष्टान्तो नामान्वव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेक. वाक्यं प्रयुक्तम् । अतो वैधHदृष्टान्त इहासादृश्यभावेन साधक उपन्यस्तः । न च तथा साधको व्यतिरेकविपयत्वेन । स साधको न च तथोपन्यस्त इति । अतोऽप्रदर्शितव्यतिरेको वक्तुरपराधादृष्टः । वैधयेणापि विपरीतव्यतिरेको यथा यदकृतकं
तन्नित्यं भवतीति । विपरीतो व्यतिरेको यस्मिन्वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति । यदकृतकमित्यादि । इहान्वयव्यतिरेकवाक्याभ्यां
. १ दृष्टान्तेन सिद्धः. ख० दृष्टान्तेनासिद्धः।
२ अतः, ख० अयं ।