________________
१२९
तृतीयपरिच्छेदः साधनाभावो विहितः । यथा ऋषभादेरिति दृष्टान्तः । एत. स्मादृषभादेदृष्टान्तादवीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगे. स्य च साधनस्य निवृत्तिः संदिग्धा । ऋषभादीनां हि परिग्रहाग्रहयोगोऽपि संदिग्धो वीतरागत्वं च । यदि नाम तसिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठ्यन्ते तथापि संदेह एव । अपरानपि त्रीनुदाहर्तुमाह
अव्यतिरेको यथाऽवीतरागो वक्तृत्वात् । - अविद्यमानोऽव्यतिरेको यस्मिन्सोऽव्यतिरेकः । अवीतराग इति रागादिमत्त्वं साध्यम् । वक्तृत्वादिति हेतुः । इह व्यतिरेकमाह- अ वैधर्योदाहरणं यत्र वीतरागत्वं नास्ति स वक्ता यथोपलखण्ड इति । यद्यप्युपलखण्डादुभयं
व्यावृत्तया सों वीतरागो न वक्तेति ... ___ व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ।
यत्रावीतरागत्वं नास्तीति साध्याभावानुवादः । तत्र वक्तृत्वमपि नास्तीति साधनाभावविधिः । तेन साधनाभावेन साध्याभावो व्याप्त उक्तः। दृष्टान्तो यथोपलखण्डेति । कथमयमव्यतिरेको यावतोपलखण्डादुभयं निवृत्तम् । किमतो यापलखंण्डा. दुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च तथापि व्याप्त्या व्यतिरेको यस्तस्यासिद्धेः कारणादन्यतिरेकोऽयम् । कीदृशी पुन
ाप्तिरित्याह । सर्वो वीतराग इति साध्याभावानुवादः । न वक्तेति साधनाभावविधिः । तेन साध्याभावः साधनाभावनियतः ख्यापितो भवतीति । ईशी व्याप्तिस्तया व्यतिरेको न १. योगस्य, क • योगत्वस्य । २ ख्यापितः, क० स्थापितः । ३'इति' इति पदं ख० पुस्तके नोपलभ्यते। .