________________
१२८
न्यायबिन्दुः ते रागादिमन्त इति साधनाभावो विहितः। गौतम आदिउँषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतयस्तेषां कर्तारः । त्रयीविदा हि ब्राह्मणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च । त इति धर्मी । व्यतिरेकविषयो गौतमादय इति गौतमादिभ्यो रागादिमत्वस्य साधनस्य निवृत्तिः संदिग्धा । यद्यपि ते ग्राह्यवचनास्त्रेयीविदा तथापि कि सरागा उत वीतरागा इति संदेहः।
संदिग्धासंदिग्धोभयव्यतिरेकः । सन्दिग्ध उभयोर्व्यतिरेको यस्मिन्स तथोक्तः । तमुदाहरतियथा ऽवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति ।
यथेति । अवीतरागा इति रागादिमत्त्वं साध्यम् । कपिलादय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः । स्वीकारावं यद्गाय मात्सर्य स आग्रहः । परिग्रहश्चाग्रहश्च ताभ्यां योगात् । कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्तीति ते रागादिमन्तो गम्यन्ते ।
अत्र वैधये॒णोदाहरणम् । अत्र प्रमाणे वैधर्योदाहरणम् । यत्र साध्याभावे साधना. भावो दर्शयितव्यः ।
यो वीतरागो न तस्य परिग्रहाग्रहो यथा-ऋषभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः ।
यो वीतराग इति साध्याभावमनूध न तस्य परिग्रहाग्रहाविति १ रागादि०, ख० रोगादि। २ त इति, ख. त इतीह । ३ त्रयीविदा, ख. त्रयोविदः ।
mamme