Book Title: Nyayabindu
Author(s): Dharmottaracharya
Publisher: Chaukhambha Sanskrit Granthmala

View full book text
Previous | Next

Page 188
________________ १३२ - न्यायविन्दुः सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यमेभिः प्र. तिपादयितुम् । . तदर्थापत्त्यैषां निरासो वेदितव्यः । - तस्मादर्थापत्या सामर्थ्येनेति' तेषां निराकरणं द्रष्टव्यम् । साध्यनियतसाधनप्रतीतय उपात्ताः । तदसमर्था दुष्टाः स्वकार्यकरणादिति सामर्थ्यम् । इयता साधनमुक्तम् । . . दूषणं वक्तुमाह दूषणा न्यूनतायुक्तिः। दृषणा का द्रष्टव्या । न्यूनतादीनामुक्तिरुच्यते । न येत्युक्तिर्वचनं न्यूनतादिर्वचनम् । दृषणं विवरीतुमाह - ये पूर्व न्यूनतादयः साधनादोषा उक्तास्तेषामुद्भावनं दूषणम् । ये पूर्व न्यूनतादयोऽसिद्धविरुद्धानकान्तिका उक्तास्तेषामुद्भावनं यद्वचनं तदुषणम् । ननु च न्यूनतादयो न विपर्यसाधनास्तत्कथं दृषणमित्याह तेन परेष्टार्थसिद्धिप्रतिबन्धात् । । तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिनिश्चयस्तस्याः प्रतिबन्धानावश्यं विपर्ययसाधनादेव दुपणं विरुदवदपि तु परस्याभिप्रेतनिश्चयनिबन्धानिश्चयाभावो भवति । १ मुद्रितपुस्तके 'इति न तेषां' इति पाठोऽस्ति । किन्त्वस्माकं सम्मतो 'न' इति पदं नात्र युज्यते । २ प्रतीतये, ख० प्रतिपत्तये।

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230