________________
६ आन्वीक्षिकी- समुद्देशः ।
अथाध्यात्म योगलक्षणमाहआत्ममनोमरुत्तत्वसमेतायोगलक्षणो ह्यध्यात्मयोगः ॥ १ ॥ टीका - आत्मा चिद्रूपः, मनः प्रसिद्धं मरुतः शरीरस्था वायवः, तत्त्वं पृथिव्यादि तेषां समं एकहेलया समतालक्षणः स हि स्फुटं अध्यामयोगः कथ्यते । तथा चर्षिपुत्रकः-
आत्मा मनो मरुत्तत्त्वं सर्वेषां समता यदा ।
तदा त्वध्यात्मयोगः स्यान्नराणां ज्ञानदः स्मृतः ॥ १ ॥
तथा च व्यासः --
न पद्मासनतो योगो न च नासाग्रवीक्षणात् । मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ १ ॥
अथ अध्यात्मज्ञस्य राज्ञो यद्भवति तदाह--. अध्यात्मज्ञो हि राजा सहजशारीरमानसागन्तुभिर्दोषैर्न बाध्यते ।। २ ।।
"
टीका - यो राजाध्यात्मज्ञो भवति, तस्य किं स्यात्, एतेन दोषचतुष्टयेन स राजा न बाध्यते नाश्लिष्यते । केन केन तावत् सहजेन सत्वं मुक्त्वा रजसा तमसा च कश्चित् प्रकृत्या राजसो भवति, कश्चित्तामसः, कश्चिदुभाभ्यां सहितः स्यात् स ताभ्यां न बाध्यते । तथा शारीराश्च ये दोषा रोगसम्भवगलगण्डादयः । तथा मानसाश्च ये दोषाः परकलत्रादयस्तैरपि न बाध्यते । तथागन्तुकैर्भाविभिरपि न बाध्यते । तथा च नारदः
१ समसमायोग इति मु-मू-पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org