________________
३६२
नीतिवाक्यामृते
टीका-समस्य तुल्यबलस्य समेन तुल्यबलेन विग्रहे मरणं तावन्निश्चितं विजये च संशयः । हि यतः कारणात् आममपकं पात्रं त्वामेन हन्यमानं उभयतः पक्षद्वयेऽपि क्षयं करोति । तथा च भागुरिः
समेनापि न योद्धव्यमित्युवाच बृहस्पतिः।
अन्योन्याहतिना भंगो घटाभ्यां जायते यतः॥१॥ अथ हीनबलस्य बलवता सह युद्धेन यद्भवति तदाहज्यायसा सह विग्रहो हस्तिना पदातियुद्धमिव ॥ ६९ ॥
टीका-ज्यायसा महाबलेन सह यो विग्रहः स किंविशिष्टः ? पदातियुद्धमिव । केन ? हस्तिना । यथा पदातीनां युद्ध हस्तिना सह नाशाय भवति तथा बलवता सह दुर्बलस्य । तथा च भारद्वाजः
हस्तिना सह संग्रामः पदातीनां क्षयावहः ।
तथा बलवता नूनं दुर्बलस्य क्षयावहः॥१॥ अथ धर्मविजयिनो राज्ञः स्वरूपमाह
स धर्मविजयी राजा यो विधेयमात्रेणैव सन्तुष्टः प्रणार्थामानेषु न व्यभिचरति ॥ ७० ॥ ___टीका-यो राजा विधेयमात्रेण सन्तुष्टः सन् न व्यभिचरति नान्यायकारी भवति । केषु ? प्राणार्थाभिमानेषु प्राणेष्वर्थेष्वभिमानेषु लोकानां स धर्मविजयी कीर्त्यते । तथा च शुक्रः--
प्राणवित्ताभिमानषु यो राजा द्रुहेत्प्रजाः ।
स धर्मविजयी लोके यथा लोभेन कोशभाक् ॥१॥ अथ लोभविजयिनो राज्ञः स्वरूपमाह
स लोभविजयी राजा यो द्रव्येण कृतप्रीतिः प्राणाभिमानेषु न व्यभिचरति ॥ ७१ ॥ ___टीका-यो राजा द्रव्येण कृतप्रीतिर्भवति प्राणार्थ मानार्थ प्रजानां न व्यभिचरति स लोभविजयी भण्यते । तथा च शुक्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org