Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
युद्धसमुद्देशः।
३६३
प्राणेषु चाभिमानेषु यो जनेषु प्रवर्तते ।
स लोभविजयी प्रोक्तो यः स्वार्थेनैव तुष्यति ॥ १॥ . अथासुरविजयिनो राज्ञः स्वरूपमाह
सोऽसुरविजयी यः प्राणार्थमानोपघातेन महीमभिलपति॥७२॥
टीका–स राजा असुरविजयी कीर्यते । यः किंविशिष्टः ? अभिलषति। कां ? महीं । केन ? प्राणार्थमानोपघातेन । केषां ? लोकानां । तथा च शुक्रः
अर्थमानोमघातेन यो महीं वाञ्छते नृपः।
देवारिविजयी प्रोक्तो भूलोकेऽत्र विचक्षणैः ॥ १॥ अथासुरविजयिनः संश्रयो यादृक् भवति तदाह-~असुरविजयिनः संश्रयः मूनागारे मृगप्रवेश इव ॥ ७३ ॥ टीका-सूनोऽन्त्यजस्तस्यागारं गृहं तस्मिन् मृगप्रवेश इव । यथाऽन्त्यजगृहे प्रविष्टस्य मृगस्य मरणं भवति तथासुरविजयिनं संश्रयमाणस्वेत्यर्थः । तथा च शुक्रः. असुरविजयिनं भूपं संश्रयेन्मतिवर्जितः।
स नूनं मृत्युमाप्नोति सूनं प्राप्य मृगो यथा ॥ १॥ अथ श्रेष्ठवचनस्य भूपस्य यद्भवति तदाहयादृशस्तादृशो वा यायिनः स्थायी बलवान् यदि साधुचरः संचारः ॥ ७४ ॥
टीका-यादृशस्तादृशो वा दुर्बलो हीनकोशो वा स्थायी यायिनः सकाशाद्बलवान् भवति। यदि किं स्यात् ? यदि साधुजनो भवति-शोभनजनसन्निधिर्भवति । तथा तादृशश्च सावधानश्च भवति । तथा च नारद:
राज्यं च दुर्बलो वापि स्थायी स्याद्बलवत्तरः ।
सकाशाद्यायिनश्चेत्स्यात्सुसन्नद्धः सुचारकः ॥ १॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466