SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः। ३६३ प्राणेषु चाभिमानेषु यो जनेषु प्रवर्तते । स लोभविजयी प्रोक्तो यः स्वार्थेनैव तुष्यति ॥ १॥ . अथासुरविजयिनो राज्ञः स्वरूपमाह सोऽसुरविजयी यः प्राणार्थमानोपघातेन महीमभिलपति॥७२॥ टीका–स राजा असुरविजयी कीर्यते । यः किंविशिष्टः ? अभिलषति। कां ? महीं । केन ? प्राणार्थमानोपघातेन । केषां ? लोकानां । तथा च शुक्रः अर्थमानोमघातेन यो महीं वाञ्छते नृपः। देवारिविजयी प्रोक्तो भूलोकेऽत्र विचक्षणैः ॥ १॥ अथासुरविजयिनः संश्रयो यादृक् भवति तदाह-~असुरविजयिनः संश्रयः मूनागारे मृगप्रवेश इव ॥ ७३ ॥ टीका-सूनोऽन्त्यजस्तस्यागारं गृहं तस्मिन् मृगप्रवेश इव । यथाऽन्त्यजगृहे प्रविष्टस्य मृगस्य मरणं भवति तथासुरविजयिनं संश्रयमाणस्वेत्यर्थः । तथा च शुक्रः. असुरविजयिनं भूपं संश्रयेन्मतिवर्जितः। स नूनं मृत्युमाप्नोति सूनं प्राप्य मृगो यथा ॥ १॥ अथ श्रेष्ठवचनस्य भूपस्य यद्भवति तदाहयादृशस्तादृशो वा यायिनः स्थायी बलवान् यदि साधुचरः संचारः ॥ ७४ ॥ टीका-यादृशस्तादृशो वा दुर्बलो हीनकोशो वा स्थायी यायिनः सकाशाद्बलवान् भवति। यदि किं स्यात् ? यदि साधुजनो भवति-शोभनजनसन्निधिर्भवति । तथा तादृशश्च सावधानश्च भवति । तथा च नारद: राज्यं च दुर्बलो वापि स्थायी स्याद्बलवत्तरः । सकाशाद्यायिनश्चेत्स्यात्सुसन्नद्धः सुचारकः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy