SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ संग्रामे भीतमशस्त्रं च बनतो यद्भवति तदाहरणेषु भीतमशस्त्रं च हिंसन् ब्रह्महा भवति ॥ ७५ ॥ टीका-भवति जायते। कोऽसौ ? पुरुषः। किं कुर्वन् ? हिंसन् घ्नन् । के ? भीतं चकितं । तथाऽशस्त्रं भग्नशस्त्रं शस्त्ररहितं वा । ( किंविशिष्टः पुरुषो भवति ? ब्रह्महा )। तथा च जैमिनिः भग्नशस्त्रं तथा त्रस्तं तथास्मीति च वादिनं । __ यो हन्याद्वैरिणं संख्ये ब्रह्महत्यां समश्नुते ॥१॥ अथ संग्रामगतेषु यायिषु योद्धृषु यत्कृत्यं तदाहसंग्रामधृतेषु यायिषु सत्कृत्य विसर्गः ॥ ७६ ॥ टीका-संग्रामधूतेषु यायिषु वस्त्रादिभिः पूजां कृत्वा विसर्गो मोक्षस्तथा कार्यः । तथा च भारद्वाज:-- संग्रामे वैरिणो ये च यायिनः स्थायिनो वृताः। गृहीता मोचनीयास्ते क्षात्रधर्मेण पूजिताः ॥१॥ अथ स्थायिभिः यत्कर्तव्यं तदाह- . स्थायिषु संसर्गः सेनापत्यायत्तः ॥ ७७ ॥ टीका--स्थायिनां भूपतीनां यायिभिः सह योऽसौ संसर्गो मेलापकः स सेनापत्यायत्तः सेनापतिवशेन भवति नानार्थः (१) कार्यः । यायिना संसर्गस्तु स्थायिनः संप्रणश्यति । यदि सेनापतेश्चित्ते रोचते नान्यथैव तु ॥१॥ अथ सर्वेषां प्राणिनाभुमयतो मातिनदीयं यथा भवति तथाह मतिनदीयं नाम सर्वेषां प्राणिनामुभयतो वहति पापाय धर्माय च, तत्राद्यं स्रोतोऽतीव सुलभं दुर्लभं तद्वितीयमिति ।७८ टीका-~नामाहो सर्वेषां प्राणिनां मनुष्याणां मतिनदी बुद्धिलक्षणा उभयतो द्विप्रकारा वहति पापाय धर्माय च तत्राद्यं प्रथमं स्रोतः पापलक्षणं तदतीवातिशयेन सुलभं सुखेन लभ्यते पापं कुर्वाणस्य पुरुषस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy