SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । कष्टं न भवति प्रत्युत तस्य (सुलभतैव ) मतिनद्या द्वितीयं प्रोक्तं स्रोतः धर्मलक्षणं तदुर्लभं कृच्छेण यदि लभ्यते इति । तथा च गुरु: मति म नदी ख्याता पापधर्मोद्भवा नृणां । द्विस्रोतः प्रथमं तस्याः पापो धर्मस्तथापरं ॥१॥ अथ महतां वचनस्य माहात्म्यमाहसत्येनापि शप्तव्यं महतामभयप्रदानवचनमेव शपथः ॥७९॥ टीका-किल सत्यः शपथः कार्यो विश्वासविषये शत्रूणां । महतामुत्तमपुरुषाणामभयवचनं यत् स एव शपथः। तथा च शुक्र: उत्तमानां नृणामत्र यद्वाक्यमभयप्रदं । स एव सत्यः शपथः किमन्यैः शपथैः कृतैः ॥१॥ अथ साधूनामसाधूनां ये व्यवहारास्ते कथ्यन्ते-. सतामसतां च वचनायत्ताः खलु सर्वे व्यवहाराः, स एव सर्वलोकमहनीयो यस्य वचनमन्यमनस्कतयाप्यायातं भवति शासनं ।। ८० ॥ टीका-सत्पुरुषो निश्चयेन सर्वलोकमहनीयोऽखिलजनपूजनीयो भवति । यस्य पुरुषस्य वचनं वाक्यं अन्यमनस्कतया निजमाहात्म्येनापि आयातं व्याख्यातं विस्तीर्ण यथा शासनं तत्संज्ञं भवति। तथा च शुक्रः स एव पूज्यो लोकानां यद्वाक्यमपि शासनं । विस्तीर्ण प्रसिद्धं च लिखितं शासनं यथा ॥१॥ अथ वाचां माहात्म्यमाहनयोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ८१ ॥ टीका-या वाणी नयोदिता भवति नीत्यात्मिका भवति सा । हि स्फुटं । एषा प्रत्यक्षा । सरस्वती भारती । तथा च गौतमः नीत्यात्मिकात्र या वाणी प्रोच्यते साधुभिर्जनः । प्रत्यक्षा भारती ह्येषा विकल्पो नास्ति कश्चन ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy