________________
३६६
नीतिवाक्यामृते
अथ व्यभिचारिवचनेषु यद्भवति तदाहव्यभिचारिवचनेषु नैहिकी पारलौकिकी वा ।। ८२ ॥
टाकी-~-इह जन्मभवा परलोकोत्पन्ना वा । केषु ? व्यभिचारिवचनेषु व्यभिचरति-अन्यथा भवति वचनं येषां ते व्यभिचारिवचनास्तेषु । वात्र समुच्चये । तथा च गौतमः--
न तेषामिह लोकोऽस्ति न परोऽस्ति दुरात्मनां ।
यैरेव वचनं प्रोक्तमन्यथा जायते पुनः॥१॥ अथ विश्वासघातकस्य यद्भवति तदाहन विश्वासघातात्परं पातकमस्ति ।। ८३॥ टीका--नास्ति न विद्यते। किं तत् ? पातकं। किंविशिष्टं ? परमुत्कृष्टं अन्यत् । कस्मात् ? विश्वासघातात् । तथा चाङ्गिरः
विश्वासघातकादन्यः परः पातकसंयुतः। . न विद्यते धरापृष्ठे तस्मात्तं दूरतस्त्यजेत् ॥१॥ अथ भूयोऽपि विश्वासघातकस्य यद्भवति तदाहविश्वासघातकः सर्वेषामविश्वास करोति ॥ ८४ ॥
टीका-यः पुरुषो विश्वासघातको भवति स सर्वेषां लोकानां सर्वेषु पदार्थेषु अविश्वासं करोति-न तस्य कश्चिद्विश्वासं याति । तथा च रैभ्यः
विश्वासघातको यः स्यात्तस्य माता पितापि च ।
विश्वासं न करोत्येव जनेष्वन्येषु का कथा ॥१॥ असत्यकोशघाते यद्भवति तदाह - असत्यसन्धिषु कोशपानं जातान् हन्ति ॥ ८५ ॥ टीका-हन्ति विनाशयति । किं तत् ? कोशपानं प्रसिद्धं । कान् ? जातान् पुत्रपौत्रादीन् । केषु ? असत्यसन्धिषु मृषाप्रतिज्ञेषु । ये परान् वंचयित्वा दुष्टदेवपानीयं पिबन्तीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org