________________
युद्धसमुद्देशः।
३६७
यदसत्यं जने कोशपानं तदिह निश्चितं ।
करोति पुत्रपौत्राणां घातं गोत्रसमुद्भवं ॥१॥ अथ व्यूहरचनायाः कारणान्याहबलं बुद्धिभूमिग्रहानुलोम्यं परोद्योगश्च प्रत्येकं बहुविकल्प दण्डमण्डलाभोगा संहतव्यूहरचनाया हेतवः ।। ८६ ॥ टीका—गतार्थमेतत् । अथ व्यूहस्य स्थैर्यकालं प्राहसाधुरचितोऽपि व्यूहस्तावत्तिष्ठति यावन्न परबलदर्शनं॥८७॥
टीका-व्यूहः पूरादिकस्तावत्तिष्टति यावत्परबलदर्शनं । किंविशिष्टोऽपि? साधुरचितोऽपि बुद्धिमता रचितोऽपि । परबलदर्शने जाते ये वीर्योत्कटा भवन्ति व्यूहं त्यक्त्वा परसैन्ये प्रवेशं करोति ततः स्यात्संकुलयुद्धम् । तथा च शुक्रः--
व्यूहस्य रचना तावत्तिष्ठति शास्त्रनिर्मिता ।
यावदन्यदलं नैव दृष्टिगोचरमागतं ॥१॥ अथ योधैर्यथा योद्धव्यं तदाहन हि शास्त्रशिक्षाक्रमेण योद्धव्यं किन्तु परप्रहाराभिप्रायेण ॥ ८८॥
टीका--पूर्व शास्त्रशिक्षा कृता एकाकिना सह । किन्तु परप्रहाराभिप्रायेण योद्धव्यं यथा शत्रवः प्रहारान् प्रयच्छन्ति तथा तेषु कालंच विज्ञाय प्रकाशयुद्धं प्रकटयुद्धं कर्तव्यं । हि स्फुटार्थ । तथा च शुक्रः
शिक्षाक्रमेण नो युद्धं कर्तव्यं रणसंकुले।
प्रहारान् प्रेक्ष्य शत्रूणां तदह युद्धमाचरेत् ॥ १॥ अथ शत्रौ विजुगीषुणा यथा गन्तव्यं तदाहव्यसनेषु प्रमादेषु वा परपुरे सैन्यप्रेष्यणमवस्कन्दः ॥८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org