SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६८ नीतिवाक्यामृते टीका - परव्यसनेषु संजातेषु प्रमादेषु वा तस्य पुरे स्यात्सैन्यप्रेषणं ( अवस्कन्दः ) अवस्कन्दशब्देन धाटीप्रदानमुच्यते । तथा यायात् शत्रुसैन्ये । तथा च शुक्रः व्यसने वा प्रमादे वा संसक्तः स्यात्परो यदि । तदावस्कन्ददानं च कर्तव्यं भूतिमिच्छता ॥ १ ॥ अथ कूटयुद्धलक्षणमाह अन्याभिमुखं प्रयाणकमुपक्रम्यान्योपघातकरणं कुटयुद्धं ॥ ९० ॥ टीका - अन्याभिमुखं, अन्यस्य शत्रोरुपरि प्रयाणकमुपक्रम्य कृत्वा अन्योपघातकरणं व्याघुटयोपघातः क्रियते शत्रोस्तत्कूटयुद्धमुच्यते । तथा च शुक्रः अन्याभिमुखमार्गेण गत्वा किंचित्प्रयाणकं । व्याघुट्य घातः क्रियते सदैव कुटिलाहवः ॥ १ ॥ अथ तुष्णीयुद्धस्य लक्षणमाह परोपघातानुष्ठानं तुष्णीदण्डः ॥ ९१ ॥ टीका — यच्छत्रोर्विषप्रदानं क्रियते । तथा विषमपुरुषोपनिषदवाग्योगसम्बन्धः । तथोपजापोऽभिचारक प्रयोगः । एतैर्य उपघातः क्रियते स तूष्णदण्डो मौनसंग्रामः । तथा च गुरुः — विषविषमपुरुषोपनिषदवाग्योगोपजापैः विषदानेन योऽन्यस्य हस्तेन क्रियते वधः । अभिचारककृत्येन रिपोर्मोनाहवो हि सः ॥ १ ॥ अथैकेन बलाधिपेन कृतेन यद्भवति तदाह एकं बलस्याधिकृतं न कुर्यात्, भेदापराधेनैकः समर्थो जनयति महान्तमनर्थं ॥ ९२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy