SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३६९ टीका न कुर्यान्न विदधीत । कं ? बलाध्यक्षं एक बहूनामेको यतः समर्थः स्वतंत्रः सन् राज्ञोऽप्यधिकः संजनयति । कं ? अनर्थ व्यसनं । किं विशिष्टं ? महान्तमशुभतरमिति । तथा च भागुरि:एकं कुर्यान सैन्येशं सुसमर्थ विशेषतः । धनाकृष्टः परैर्भेदं कदाचित्स परैः क्रियात् ॥ १ ॥ अथ यो राजा राजकार्यमृतानां सन्तानं न पोषयति तस्य यद्भवति तदाह राजा राजकार्येषु मृतानां सन्ततिमपोषयन्नृणभागी स्यात् साधु नोपचर्यते तंत्रेण ॥ ९३ ॥ टीका - यो राजा राजकार्ये मृतानां निर्वाहणानां सन्ततिं पुत्रपौत्रादिकं न पोषयति स तेषामृणभागी भवति । तथा तंत्रेण प्रकृत्या साधु सम्यग्यथा भवति एवं नोपचर्यते न सेव्यते । तथा च वशिष्ठ: मृतानां पुरतः संख्ये योऽपत्यानि न पोषयेत् । तेषां स हत्याया ? तूर्ण गृह्यते नात्र संशयः ॥ १ ॥ अथ स्वामिनो युद्धमानस्य पुरतो युध्यतः सेवकस्य यद्भवति तदाहस्वामिनः पुरःसरणं युद्धेऽश्वमेधसमं ।। ९४ ।। टीका - स्वामिनः प्रभोः । युद्धे संग्रामे । यत्पुरःसरणमग्रतो गमनं तत्किविशिष्टं ? अश्वमेधसममश्वमेधतुल्यं । तथा च वशिष्ठः स्वामिनः पुरतः संख्ये हन्त्यात्मानं च सेवकः । यत्प्रमाणानि याग. नि तान्याप्नोति फलानि च ॥ १ ॥ अथ संग्रामे स्वामिनं त्यजतो यद्भवति तदाह- युधि स्वामिनं परित्यजतो नास्तीहामुत्र च कुशलं ।। ९५ ।। टीका - नास्ति न विद्यते । किं तत् ? कुशलं कल्याणं । कस्य ? सेवकस्य । कुत्र ? अस्मिलोके परत्र च । किं कुर्वतः ? परित्यजतः । कं ? स्वामिनं । क ? युद्धे संग्रामे । तथा च भागुरि : नीति ०. ०-२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy