SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते यः स्वामिनं परित्यज्य युद्धे याति पराङ्मुखः । इहाकीर्ति परां प्राप्य मृतोऽपि नरकं ब्रजेत् ॥ १॥ अथ विग्रहार्थ चलितेन भूभुजा यत्कर्तव्यं तदाहविग्रहायोचलितस्याई बलं सर्वदा सन्नद्धमासीत, सेनापतिः प्रयाणमावासं च कुर्वीत चतुर्दिशमनीकान्यदूरेण संचरेयुस्तिष्ठेयुश्च टीका-विग्रहाय युद्धाय उच्चलितस्य राज्ञः सेनाध्यक्षणा, बलमर्ध सैन्यं सन्नद्धं कार्य प्रयाणं यदा भवति । तथा च सन्यावासं समुद्यतस्य चतुर्दिशमनीकानि सैन्यानि अरैः ( आरात् ) समीप संचरेयुः परिभ्रमणं कुर्युः तथा तिष्ठेयुस्तिष्ठन्ति स्म । यतः प्रयाणसमये समर्थोऽपि राजवर्गो व्याकुलो भवति शूराः परालम्ब मत्वा प्रहरन्ति । तथा च शुक्रः परभूमिप्रतिष्ठानां नृपतीनां शुभं भवेत् । आवासे च प्रयाणे च यतः शत्रुः परीक्ष्यते ॥१॥ अथ प्रणिधीनां स्वरूपमाह धमाग्निरजोविषाणध्वनिव्याजेनाटविकाः प्रणधयः पराबलान्यागच्छन्ति निवेदयेयुः ॥ ९७॥ टीका--निवेदयेयुः परबलान्यागच्छन्ति शत्रुसैन्यान्यायान्ति । केन कृत्वा ? धूमाग्निरजोविषाणध्वनिव्याजेन । आगच्छति परसैन्ये दूरस्थिते स्वामिनि धूमं कुर्युः, अग्निं वा ज्वालयन्ति, रजो वा दर्शयन्ति, विषाणं माहिषं शृंगं वा वादयन्ति । तथा च गुरुः प्रभो (भौ) दूरस्थितो (ते) वैरी यदागच्छति सन्निधौ । धूमादिभिनिवेद्यः स चरैश्चारण्यसंभवैः ॥ १॥ अथ भूमिगतेन भूभुजा यथा स्थानं देयं तस्य स्वरूपमाह पुरुषप्रमाणोत्सेधमबहुजनविनिवेशनाचरणापसरणयुक्तमग्रतो महामण्डपावकाशं च तदंगमध्यास्य सर्वदास्थानं दद्यात् ॥९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy