SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३७१ टीका-दद्यात् । किं तत् ? आस्थानं सभागृहं । किंविशिष्टं ? पुरुषोत्सेधं पुरुषप्रमाणोत्सेधं । पुनरपि किंविशिष्टं ! अबहुजनं स्तोकजनं, ( तस्य ) निवेशनं प्रवेशनं, आचरणं परिभ्रमणं, अपसरणं निर्गमयुक्तं भवति । तत्र स्थानगृहे स्तोकाः प्रविशन्ति, परिभ्रमन्ति, गच्छन्तीति । पुनरपि कथंभूतं ? यदग्रतो मण्डपावकाशं मण्डपप्रदेशं च, तदंगमध्यास्य स्थानं दद्यात् । अथ सर्वसाधरणस्थानेन दत्तेन यद्भवति तदाह-. सर्वसाधारणभूमिकं तिष्ठतो नास्ति शरीररक्षा ॥ ९९॥ टीका-सर्वजनसाधारणं सर्वजनगम्यमास्थानं वितन्वतो ददतः शरीररक्षा नास्ति न भवति, घातकानां पातात् । तथा च शुक्रः परदेशं गतो यः स्यात्सर्वसाधारणं नृपः। आस्थानं कुरुते मूढो घातकैः स निहन्यते ॥१॥ अथ परभूमिप्रविष्टेन भूमुजा परिभ्रमणं यथा कार्य तदाहभूचरो दोलाचरस्तुरंगचरो वा न कदाचित् परभूमौ प्रविशेत् ॥ १० ॥ टीका-न प्रविशेन्न गच्छेत्। कोऽसौ ? राजा। कस्यां ? परभूमौ । किंविशिष्टः सन् ? भूचरः सन् पदातिः सन् । तथा दोलाचरः शिबिकारूढः । तथा तुरंगचरोऽश्वारूढः। यतो घातपाद्भिव्यं भवति । तथा च गुरु: परभूमि प्रविष्टो यः पारदारी परिभ्रमेत् । हये स्थितो वा दोलायां घातकैर्हन्यते हि सः॥१॥ अथ परभूमिं परिभ्रमतो राज्ञो यथा क्षुद्रोपद्रवा न भवति तथाहकैरिणं जंपाणं वाप्यध्यासने न प्रभवन्ति क्षुद्रोपद्रवाः ॥१०१॥ १ मुद्रितपुस्तकात् संयोजितमिदं सूत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy