SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३६२ नीतिवाक्यामृते टीका-समस्य तुल्यबलस्य समेन तुल्यबलेन विग्रहे मरणं तावन्निश्चितं विजये च संशयः । हि यतः कारणात् आममपकं पात्रं त्वामेन हन्यमानं उभयतः पक्षद्वयेऽपि क्षयं करोति । तथा च भागुरिः समेनापि न योद्धव्यमित्युवाच बृहस्पतिः। अन्योन्याहतिना भंगो घटाभ्यां जायते यतः॥१॥ अथ हीनबलस्य बलवता सह युद्धेन यद्भवति तदाहज्यायसा सह विग्रहो हस्तिना पदातियुद्धमिव ॥ ६९ ॥ टीका-ज्यायसा महाबलेन सह यो विग्रहः स किंविशिष्टः ? पदातियुद्धमिव । केन ? हस्तिना । यथा पदातीनां युद्ध हस्तिना सह नाशाय भवति तथा बलवता सह दुर्बलस्य । तथा च भारद्वाजः हस्तिना सह संग्रामः पदातीनां क्षयावहः । तथा बलवता नूनं दुर्बलस्य क्षयावहः॥१॥ अथ धर्मविजयिनो राज्ञः स्वरूपमाह स धर्मविजयी राजा यो विधेयमात्रेणैव सन्तुष्टः प्रणार्थामानेषु न व्यभिचरति ॥ ७० ॥ ___टीका-यो राजा विधेयमात्रेण सन्तुष्टः सन् न व्यभिचरति नान्यायकारी भवति । केषु ? प्राणार्थाभिमानेषु प्राणेष्वर्थेष्वभिमानेषु लोकानां स धर्मविजयी कीर्त्यते । तथा च शुक्रः-- प्राणवित्ताभिमानषु यो राजा द्रुहेत्प्रजाः । स धर्मविजयी लोके यथा लोभेन कोशभाक् ॥१॥ अथ लोभविजयिनो राज्ञः स्वरूपमाह स लोभविजयी राजा यो द्रव्येण कृतप्रीतिः प्राणाभिमानेषु न व्यभिचरति ॥ ७१ ॥ ___टीका-यो राजा द्रव्येण कृतप्रीतिर्भवति प्राणार्थ मानार्थ प्रजानां न व्यभिचरति स लोभविजयी भण्यते । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy